DinacharyaShTakam
Ashtakam
1
श्रीरामसमर्थः॥
2
(स्तोत्रनक्षत्रमालान्तर्गतम्। ) शुद्धिश्चित्तस्य चोषो मनुजजनिवशाज्जाग्रती ज्ञानशक्ति- र्ह्यात्मानात्माऽऽविवेको दिवसकृदुदयोऽरागितैव प्रकाशः। त्यक्त्वा सम्पत्सुतोर्विमुखविषयगणं चैव विष्ठां तदानीं पश्चात्स्नानं च कार्यं चिदहमितिशुभज्ञानगङ्गाजलेन॥
3
सच्चित्सौख्यं त्रिपुण्ड्रं ह्यविरतमननं धारणं भस्मनो वै सन्ध्याकर्मैव साक्षाद्विरहितमनसा दर्शनं तस्य यत्तु। वृत्त्योर्मध्ये सुपूर्णं विमलमविचलं ब्रह्म कल्याणरूपं स्वानन्दं स्वेनमात्रं सकलहृदिगतं वाङ्मनोतीतमेकम्॥
4
आत्मारामस्य पूजां स्वहृदयकमले प्राज्ञ ! निर्वर्तनीया पाद्यार्ध्यस्नानमुख्या विविधविधिकला मास्तु सङ्कल्प एव। नैवास्ति ब्रह्मणोऽन्यत्त्रिभुवनजठरे सत्पदार्थों द्वितीयो ह्येतद्वृत्तिप्रवाहो निरवधिरचलः स्वात्मलिङ्गस्य पूजा॥
5
कर्तव्यो ब्रह्मयज्ञो ह्यविरतमनसा ब्रह्मयाथात्मरूप- स्तद्वच्छुद्धात्मना वै त्रिविधमिदमहो ! दैवमार्षं च पैत्र्यम्। विज्ञानात्माम्बुजालैस्तिलयवसहितैस्तर्पणं चिन्तनं त- त्यक्त्वा भानं द्वितीयं भवभयरहितं ब्रह्मणः स्वात्मनो वै॥
6
कृत्वाऽऽदौ वैश्वदेवं नियमितमनसा ज्ञानवह्नौ सुमाया- भानं ह्यन्नं च हुत्वा तदुपरि विविधं वृत्तिरूपं सुपाकम्। आत्मारामं समर्प्य ह्यनुदिवसनिशं भोजनं कार्यमेक् चातुर्यं भोजनादौ यदि न विलसते तर्हि रोगश्च भूयात्॥
7
पेयं ज्ञानामृतं सत्सततमविचलं भोज्यमत्यन्तशुद्धं लेह्यं ब्रह्मैव वस्तु ह्यघटितघटनाद्वैतमायाविशेषम्। चोष्यं विश्वात्मकं यत्त्वाविरतमननं भोजनान्ते च तक्रं सुज्ञो यो वै पिबेत्तद्भवभयरहितो मुक्तिभागेव स स्यात्॥
8
भुक्त्वा ज्ञानान्नमादौ विमलनरवरैर्ब्रह्मचर्चा सुकार्या ह्यन्योन्यं स्वानुभूतं निरतिशयसुखं बोधयद्भिर्विशुद्धम्। कर्तव्यं स्वेन नित्यं विगलितविषमं स्वात्मनो ध्यानमुच्चै- ``र्ध्याता ध्येयं न किञ्चित्सकलविरहितं ब्रह्म पूर्णं स्वमात्रम्''॥
9
शय्या ब्रह्मैव साक्षान्मृदुतमविमला पूर्णसौख्यैकदात्री कान्ता मुक्तिर्यया वा अविरतरमणात्काम एवातिशान्तः। निद्रा ब्रह्मैक्यरूपा ह्यविचलपरमाऽऽनन्दपूर्णा समाधिः कल्याणं सेवकस्योरुतरभयहरं स्वात्मसाम्राज्यपूर्णम्॥
10
वाचा चित्तेन केनाप्यखिलमतिकलाशक्तियुक्तेन नो वै शक्येत ब्रह्म लब्धुं निरतिशयसुखं वृत्तिशून्यं सूपुर्णम्। स्वात्मारामं स्वमात्रं सततसुविमलं स्वेन सौख्यानुभाव्यं स्वस्मिन्सच्चित्सुखाब्धिं विगलितविषमं केवलं वस्तुतन्त्रम्॥
11
इत्थं यस्यास्ति चर्या प्रतिदिवसमपि ध्यानमुच्चैश्च कुर्व- न्नात्मानात्माऽऽविवेकी शमदमसुमुखैः साधनैश्चाप्युपेतः। शुद्धात्मा ब्रह्म सूक्ष्मं भवभयरहितं ज्ञानिहृत्पद्मसंस्थं ज्ञात्वा त्वत्रैव पूर्णं निरतिशयसुखी मुक्तिभाङ्ना स भूयात्॥