Halasya Ashtakam
Ashtakam
1
वरुणः - कल्याणशैलपरिकल्पितकार्मुकाय मौर्वीकृताखिलमहोरगनायकाय। पृथ्वीरथाय कमलापतिसायकाय हालास्यमध्यनिलयाय नमश्शिवाय॥
2
भक्तार्तिभञ्जनपराय परात्पराय कालाभ्रकान्तिगरलाङ्कितकन्धराय। भूतेश्वराय भुवनत्रयकारणाय हालास्य मध्यनिलयाय नमश्शिवाय॥
3
भूदारमूर्तिहरिमृग्यपदाम्बुजाय हंसाब्जसम्भवसुदूरसुमस्तकाय। ज्योतिर्मयस्फुरितदिव्यवपुर्धराय हालास्य मध्यनिलयाय नमश्शिवाय॥
4
कादम्बकानननिवासकुतूहलाय कान्तार्धभागकमनीयकलेवराय। कालान्तकाय करुणामृतसागराय हालास्यमध्यनिलयाय नमश्शिवाय॥
5
विश्वेश्वराय विबुधेश्वरपूजिताय विद्याविशिष्टविदितात्मसुवैभवाय। विद्याप्रदाय विमलेन्द्रविमानगाय हालास्य मध्यनिलयाय नमश्शिवाय॥
6
सम्पत्प्रदाय सकलागममस्तकेषु सङ्घोषितात्मविभवाय सदाशिवाय। सर्वात्मने सकलदुःखसमूलहन्त्रे हालास्यमध्यनिलयाय नमश्शिवाय॥
7
गङ्गाधराय गरुडध्वजवन्दिताय गण्डस्फुरद्भुजगकुण्डलमण्डिताय। गन्धर्वकिन्नरसुगीतगुणाधिकाय हालास्यमध्यनिलयाय नमश्शिवाय॥
8
पाणिं प्रगृह्य मलयध्वजभूपपुत्र्याः पाण्ड्येश्वरः स्वयमभूत्परमेश्वरो यः। तस्मै जगत्प्रथितसुन्दरपाण्ड्यनाम्ने हालास्यमध्यनिलयाय नमश्शिवाय॥
9
गीर्वाणदेशिकगिरामपि दूरगं यद् वक्तुं महत्त्वमिह को भवतः प्रवीणः। शम्भो क्षमस्व भगवच्छरणारविन्द - भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश॥