shrIharisharaNAShTakam

Ashtakam

1

श्रीगणेशाय नमः॥

2

(वसन्ततिलकावृत्तम् -) ध्येयं वदन्ति शिवमेव ही केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै। रूपैस्तु तैरपि विभासि यतस्त्वमेकस्- तस्मात्त्वमेव शरणं मम शङ्खपाणे॥

3

नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा। संदृष्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम शङ्खपाणे॥

4

नोपासिता मदमपास्य मया महान्तस्- तीर्थानि चास्तिकधिया नहि सेवितानि। देवार्चनं च विधिवन्न कृतं कदापि तस्मात्त्वमेव शरणं मम शङ्खपाणे॥

5

दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणा दहन्ति। सञ्जीवनं च परहस्तगतं सदैव तस्मात्त्वमेव शरणं मम शङ्खपाणे॥

6

पूर्वं कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि हृदयं परिकम्पते मे। ख्याता च ते पतितपावनता तु यस्मात् तस्मात्त्वमेव शरणं मम शङ्खपाणे॥

7

दुःखं जराजननजं विविधाश्च रोगाः काकश्वसूकरजनिर्निरये च पातः। त्वद्विस्मॄतेः फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं मम शङ्खपाणे॥

8

नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम्। तं यच्छसीश निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम शङ्खपाणे॥

9

वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बके वा। सर्वत्र सर्वविधिना गदितस्त्वमेव तस्मात्त्वमेव शरणं मम शङ्खपाणे॥

10

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम्॥