Jambunathashtakam
Ashtakam
1
श्रितभृतिबद्धपताकः कलितोत्पलवननवमदोद्रेकः। अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः॥
2
कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः। श्रीमान् दमितत्रिपुरः श्रितजम्बूपरिसरश्चकास्तु पुरः॥
3
शमितस्मरदवविसरः शक्राद्याशास्यसेवनावसरः। करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरःशफरः॥
4
गृहिणीकृतवैकुण्ठं गेहितजम्बूमहीरुडुपकण्ठम्। दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम्॥
5
कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम्। शक्रादिश्रितचरणं शरणं जम्बूद्रुमान्तिकाभरणम्॥
6
करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये। जगदानन्दधुनिधये जम्बूतरुमूलनिलयसन्निधये॥
7
कश्चन शशिचूडालं कण्ठेकालं दयौघमुत्कूलम्। श्रितजम्बूतरुमूलं शिक्षितकालं भजे जगन्मूलम्॥
8
इति जम्बुनाथाष्टकं सम्पूर्णम्॥