Shri Rajarajeshvari Stuti or Rajarajeshvaryashtakam

Ashtakam

1

ॐ नमः पराशक्तये। आदिक्षान्त समस्तवर्णविभवा यामातृकारूपिणी मन्त्रवीर्य परामृतरसा स्वादात्सुखदायिनी। भावव्रात समुद्रगर्भलहरी शब्दार्थतत्त्वव्यापिनी सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी॥

2

वाच्य वाचक सारपूर्ण विभवा देवी षडध्वाश्रया श्रीचक्रान्तरवह्णिकोण निलयाया बिन्दुमात्रात्मिका। सूक्ष्मात्सूक्ष्मतरा परामृतमयी नित्यं जगत्तर्पिनी सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी॥

3

पूर्णाहन्त्वविमर्श पावनकरी नित्यं मलक्षालिनी भक्तानां भवभीति भञ्जनकरी हृत्पङ्कजे संस्थिता। बाह्याभ्यन्तरचारिणी सुरसतो हंसेनया सेविता सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी॥

4

ऊर्ध्वाधः स्थितनाडिवृन्दविभवे सञ्जीविकामध्यमा स्वात्मामर्शन तत्परैश्च सततं भक्तैः खलु प्राप्यते। मूलाद् ब्रह्मबिलावधितडिदिवया ब्रह्मनाडी स्मृता सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी॥

5

वर्णावर्णनिवर्ण भेद निवहातत्राप्यभेदात्मिका वेदान्तागमतन्त्र सार महिमाषड्दर्शनोल्लङ्घिनी। सर्वाचार विचार पालन परायानिर्गता चारका सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी॥

6

ॐ तत्सदितिनामभिर्निगदिता सर्वागमे योगिभिः तत्प्राणान्त विचार्यभक्त निबहैः ह्रीतमिव शष्पवत्। ऐन्द्रं-धाम विहाय क्षीणकलुषैर्मोक्षाय या स्वीकृता सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी॥

7

सौरं ज्योतिरिदमपि परिमितंह्रीतं तथा यत्पदात् ॐइत्येतद्विमर्शनेन सततं सर्वमिदं स्वात्मनि। रक्तेस्तत्पद प्रेप्सुभिञ्च मुनिभिःस्वस्थै सदास्वीकृतं सा मां पातु सरस्वती भगवती श्रीराजराजेश्वेरी॥

8

तैस्त्तैर्योगिवरैः सदा कवियशोनक्रं दिनं यत्पद- ध्यानावस्थित तद् गतेन मनसा प्राप्तं महत् निर्मलम। मोक्षं भोगं ददाति या प्रभुदिता विद्याधरैर्वन्दिता सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी॥