Mahalinga Ashtakam
Ashtakam
1
महालिङ्गं महादेवं महेश्वरमुमापतिम्। साम्बं मध्यार्जुनेशं तं गुरुं देवं नतोऽस्म्यहम्॥
2
ज्योतिरूपं कृष्णरूपं सर्वरूपं जगत्पतिम्। इष्टार्थसिद्धिदं शम्भुं महालिङ्गं नतोऽस्म्यहम्॥
3
काशिक्षेत्रसमानञ्च कैलासादधिकं प्रियम्। शाश्वतस्थिरवासं च महालिङ्गं नतोऽस्म्यहम्॥
4
बृहद्कुचाम्बासहितं मूकाम्बा तपसाफलम्। गणाध्यक्षं षण्मुखञ्च महालिङ्गं नतोऽस्म्यहम्॥
5
प्रदक्षिणादश्वमेधं नमनात्वाजपेयकम्। स्तोत्रात्श्रीराजसूयाख्यं स्मराणत्मुक्तिदायकम्॥
6
क्षेत्रवासश्च निर्मुक्त तीर्थस्नानैः सदा शुचि। पञ्चाक्षरजपाश्चैव महालिङ्गं प्रतुष्यति॥
7
यः प्रदोष महालिङ्गं रुद्रजापात्प्रदोषयेत्। स सर्वरोगनिर्मुक्त शतायुस्सुखमेततु॥
8
दर्शनात्सर्वपापघ्नं नमनात्वाञ्छितप्रदम्। स्मरणान्सर्वसायुज्यं महालिङ्गं नतोऽस्म्यहम्॥
9
महालिङ्गाष्टकं स्तोत्रं कृतं कष्टौघनाशनम्। महालिङ्गप्रेरितेन गोपालेन कृतं शुभम्॥