Shriman Narayana AshtAkshari Stutih

Ashtakam

1

ॐ नमो नारायणाय। ॐ- नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर। व्यक्ताव्यक्त कलातीत ॐकाराय नमो नमः॥

2

न- नमो देवादिदेवाय देहसञ्चारहेतवे। दैत्यसङ्घविनाशाय नकाराय नमो नमः॥

3

मो- मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्। मोहविध्वंसकं वन्दे मोकाराय नमो नमः॥

4

ना- नारायणाय नव्याय नरसिंहाय नामिने। नादाय नादिने तुभ्यं नाकाराय नमो नमः॥

5

रा- रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम्। कौसल्यातनयं वन्दे राकाराय नमो नमः॥

6

य- यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च। यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः॥

7

णा- णाकारं लोकविख्यातं नानाजन्मफलप्रदम्। नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः॥

8

य- यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः। सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः॥

9

ॐकारमन्त्रसंयुक्तं नित्यं ध्यायन्ति योगिनः। (ॐकारबिन्दुसंयुक्तं) कामदं मोक्षदं तस्मै ॐकाराय नमो नमः॥

10

नारायणः परं ब्रह्म नारायणः परं तपः। नारायणः परो देवः सर्वं नारायणस्सदा॥

11

ॐ नमो नारायणाय। इति नारायणाष्टाक्षरीस्तुतिः समाप्ता॥