Haryashtakam

Ashtakam

1

स्वमुद्धर्तुं हरे वेत्ति किं कूपे पतितः पशुः। क्षिपन्नङ्घ्रिं मुहुर्क्रन्दन् कृपां जनयति प्रभो॥

2

अनिच्छतोऽपि तस्याज्ञस्याङ्गं कुक्षिं च दामभिः। शनैर्निबध्य स्वजनैर्हरे स परमुद्धरेत्॥

3

स हरे लालयेत् पङ्कं क्षालयेत् पालयेत्तृणैः। शमये दौषधैर्मन्त्रैः स्वगोष्ठस्तस्य वेदनाम्॥

4

तथा नरपशोरीश भवकूपेऽर्दितस्य मे। हरे परिहराशेष क्लेशं केशिघ्न केशव॥

5

मां हि जीवन्मृतं कर्तुं यतन्ते परितः खलाः। तान्निहत्य हरे शीघ्रं सेवायां ते नियुङ्क्ष्व माम्॥

6

कामाद्याऽन्तर शत्रुभ्यो बाह्य शत्रुभ्य एव च। भीतं हरेऽसुराद्भीतं प्रह्लादाह्लाद पाहि माम्॥

7

आधीन्व्याधीनरीन्राज्ञो द्रोहिणोऽन्यांश्च दुर्जनान्। क्षिप्रं नाशय सर्वज्ञ सर्वशक्ते हरे मम॥

8

कलिं खण्डय तद्भृत्यान् दण्डयाशु हरे मम। मनशोधय सत्तत्त्वं बोधयेष्टं प्रसादय॥

9

वादिराज यति प्रोक्तमेवं हर्यष्टकं नवम्। पठन् नृसिंह कृपया रिपून् संहरति क्षणात्॥

10

इति वादिराजतीर्थविरचितं हर्यष्टकं सम्पूर्णम् ।॥