Shrimat Tilakashtakam

Ashtakam

1

(वृत्तं-भुजङ्गप्रयातम्) घनश्यामलं शारदाकण्ठरत्नं गुणाढ्यं वदान्यं परं लोकमान्यम्। गणेशं जपन्तं प्रशान्तस्वरूपं भजे देशभक्तं मुदा बालराजम्॥

2

स्वदेशव्रतं पूर्णभक्त्या चरन्तं धृतं येन हस्ते बहिष्कारशस्त्रम्। प्रसन्नं तथा चैकपत्नीव्रतस्थं भजे देशभक्तं मुदा बालराजम्॥

3

महापण्डितं निःस्पृहं वीतरागं लसदीप्तिमन्तं ज्वलत्कर्मसक्तम्। महाराष्ट्र गीर्वाणभाषाप्रवीणं भजे देशभक्तं मुदा बालराजम्॥

4

महाराष्ट्रभूप्राणसञ्जीवनं तं सदाराजनीतिव्रतव्यग्रचित्तम्। तनबुद्धिजेतारमानन्दकन्दं भजे देशभक्तं मुदा वालराजम्॥

5

न मेषा वयं सुप्तवोर्यास्तु सिंहाः स्वकीयातबन्धूनिदं सम्प्रवक्तुम्। लिखन्तं श्रुतं 'केसरी' वृत्तपत्रं भजे देशभक्तं मुदा बालराजम्॥

6

स्वकीयं मतं निःस्पृहं निश्चितं यो नृपस्याग्रतोऽपि ब्रुवन्नो बिभेति। विशुद्धं प्रबुद्धं च सत्यव्रतं तं भजे देशभक्तं मुदा बालराजम्॥

7

सुरापानसक्तान्स्वबन्धून्निरीक्ष्य स्वचित्ते भृशं यो विषण्णो बभूव। कृतो येन यत्नोऽनिशं तद्धिताय भजे देशभक्तं मुदा बालराजम्॥

8

व्रतं स्वीकृतं निर्मल पालनाय सहित्वा सदा केशभारं प्रभूतम्। कृतं बन्दिवासस्थलं येन पूतं भजे देशभक्तं मुदा बालराजम्॥

9

इदं देशभक्तस्य पुण्यं चारीत्रं स्वदृष्टेः पुरस्तात्सदा यो निधाय। तथा वर्तमानो जनो लोकमान्यो हितं शाश्वतं देशभूमेः स कुर्यात्॥