Haribhakta Ashtakam
Ashtakam
1
श्रीमध्वशुद्धराद्धान्तभूमयो धृतनेमयः। महान्तो हरिसन्तोषकराः क्लेशहरा मम॥
2
रुक्षाघक्षालने दक्षा मोक्षदाधोक्षजेक्षणाः। रक्ष्येलक्ष्याविपक्षाक्षहर्यक्षाः परपक्षकाः॥
3
सुदयानिधयो मोक्षावधयो विजिताऽऽधयः। हरिसन्निधयो ज्ञानेषुधयोऽम्बुधयो गुणैः॥
4
प्रभञ्जनाप्तचित्पुञ्जाक्ष्यञ्जना जनरञ्जनाः। निरन्जनाः कञ्जनाभव्यञ्जना भवभञ्जनाः॥
5
नृत्यन्तः स्वान्तवृत्यन्तस्सन्तो हन्तोज्झिता हरिम्। भजन्तोऽन्यत्यजन्तस्ते यतयो गतयो मम॥
6
सदा शास्त्रविचारस्थान् सदाऽशास्त्रजये पटून्। सदा शास्त्रविचारस्थान् सदा शास्त्रपयोत्स्यतः॥
7
अलं पटादिविषयैरित्यलम्पटमानसान्। अनलङ्कुर्वतः स्वाङ्गमनलं कुर्वतो द्विषाम्॥
8
भ्रमतो भ्रमतो देशं नमतो नमतोदयम्। गुरून्विद्यागुरून्सर्वान् स्मरध्वं स्मरतो हरिम्॥
9
हरिभक्ताष्टकं दृष्टादृष्टसर्वेष्ट पुष्टिदम्। यतिना वादिराजेन रचितं सर्वदा पठेत्॥