shrIvallIbhuvaneshvaryaShTakam

Ashtakam

1

श्रीचित्रापुरवासिनीं वरभवानीशङ्करत्वप्रदां ओतप्रोतशिवान्वितां गुरुमयीं गाम्भीर्यसन्तोषधाम्। हृद्गुह्याङ्कुरकल्पितं गुरुमतं स्रोतायते तां सुधां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे॥

2

चिन्मुद्राङ्कितदक्षिणास्यनिहितां श्रीभाष्यकारश्रियं तां हस्तामलकप्रबोधनकरीं क्षेत्रे स्थितां मातृकाम्। श्रीवल्ल्युद्भवपुष्पगन्धलहरीं सारस्वतत्रायिकां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे॥

3

श्रीविद्योदितकौमुदीरसभरां कारुण्यरूपात्मिकां मूर्तीभूय सदा स्थितां गुरुपरिज्ञानाश्रमाश्वासनाम्। सान्निध्याङ्गणशिष्यरक्षणकरीं वात्सल्यसारास्पदां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे॥

4

तन्वीं रक्तनवार्कवर्णसदृशीं खण्डेन्दुसम्मण्डितां पीनोत्तुङ्गकुचद्वयीं कुटिकटीं त्र्यक्षां सदा सुस्मिताम्। पाशाभीतिवरैश्वराङ्कुशधरां श्रीपर्णपादां परां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे॥

5

श्रीमच्छङ्करसद्गुरुर्गणपतिर्वातात्मजः क्षेत्रपः प्रासादे विलसन्ति भूरि सदये नित्यस्थिते ह्रींमयि। युष्मत्स्नेहकटाक्षसौम्यकिरणा रक्षन्ति दोग्ध्रीकुलं श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे॥

6

गोप्त्रीं वत्ससुरक्षिणीं मठगृहे भक्तप्रजाकर्षिणीं यात्रादिव्यकरीं विमर्शकलया तां साधके संस्थिताम्। प्रायश्चित्तजपादिकर्मकनितां ज्ञानेश्वरीमम्बिकां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे॥

7

श्रीसारस्वतगेयपेयजननीं ज्ञानादिविद्याप्रदां लोके भक्तसुगुप्तितारणकरीं कार्पण्यदोषापहाम्। आर्यत्वप्रविकासलासनकरीं हृत्पद्मविद्युत्प्रभां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे॥

8

क्षुद्रा मे भुवनेश्वरि स्तुतिकथा किं वा मुखे ते स्मितं याऽसि त्वं पदवर्णवाक्यजननी वर्णैः कथं वर्ण्यताम्। वासस्ते मम मानसे गुरुकृपे नित्यम् भवेत् पावनि नान्या मे भुवनेश्वरि प्रशमिका नान्या गतिर्ह्रींमयि॥