bhagavatyaShTakam

Ashtakam

1

नमोऽस्तु ते सरस्वति त्रिशूलचक्रधारिणि सिताम्बरावृते शुभे मृगेन्द्रपीठसंस्थिते। सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे सुवर्णपद्मभूषिते नमोऽस्तु ते महेश्वरि॥

2

पितामहादिभिर्नुते स्वकान्तिलुप्तचन्द्रभे सरत्नमालयावृते भवाब्धिकष्टहारिणि। तमालहस्तमण्डिते तमालभालशोभिते गिरामगोचरे इले नमोऽस्तु ते महेश्वरि॥

3

स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे दरिद्रदुखहारिणि त्रिलोकशङ्करीश्वरि। भवानि भीम अम्बिके प्रचण्डतेज उज्ज्वले भुजाकलापमण्डिते नमोऽस्तु ते महेश्वरि॥

4

प्रपन्नभीतिनाशिके प्रसूनमाल्यकन्धरे धियस्तमोनिवारिके विशुद्धबुद्धिकारिके। सुरार्चिताऽङ्घ्रिपङ्कजे प्रचण्डविक्रमेऽक्षरे विशालपद्मलोचने नमोऽस्तु ते महेश्वरि॥

5

हतस्त्वया स दैत्यधूम्रलोचनो यदा रणे तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः। निरीक्ष्य तत्र ते प्रभामलज्जत प्रभाकरस्त्वयि दयाकरे ध्रुवे नमोऽस्तु ते महेश्वरि॥

6

ननाद केसरी यदा चचाल मेदिनी तदा जगाम दैत्यनायकः स्वसेनया द्रुतं भिया। सकोपकम्पदच्छदे सचण्डमुण्डघातिके मृगेन्द्रनादनादिते नमोऽस्तु ते महेश्वरि॥

7

कुचन्दनार्चितालके सितोष्णवारणाधरे सवर्करानने वरे निशुम्भशुम्भमर्दिके। प्रसीद चण्डिके अजे समस्तदोषघातिके शुभामतिप्रदेऽचले नमोऽस्तु ते महेश्वरि॥

8

त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी त्वमेव सर्वहारिणी न गम्यसेऽजितात्मभिः। दिवौकसां हिते रता करोषि दैत्यनाशन शताक्षि रक्तदन्तिके नमोऽस्तु ते महेश्वरि॥

9

पठन्ति ये समाहिता इमं स्तवं सदा नराः अनन्यभक्तिसंयुताः अहर्मुखेऽनुवासरम्। भवन्ति ते तु पण्डिताः सुपुत्रधान्यसंयुताः कलत्रभूतिसंयुता व्रजन्ति चाऽमृतं सुखम्॥

10

इति श्रीमदमरदासविरचितं भगवत्यष्टकं समाप्तम्॥