Shri Tilacharya Ashtakam
Ashtakam
1
रामानन्दीयसिद्धान्तवारिधेर्वर्धकं विधुम्। टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
2
सिंहंवादिद्विपानां च विशिष्टाद्वैतवादिनम्। टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
3
विजेतारं च सिद्धानां सिद्धेशं सिद्धिदायिनम्। टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
4
श्रीमदानन्दभाष्याब्जभास्करं ब्रह्माचारिणम्। टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
5
भक्तिशिक्षासुधावर्षिवारिदं मृत्युवारकम्। टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
6
श्रीसाकेतनिवासाख्यं मुक्तिदं भक्तिदानतः। टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
7
विनीतानां च शिष्याणां पश्चसंस्कारकारकम्। टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
8
तारकादिरहस्यानां दानेन भवतारकम्। टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥