shrIkaNThAShTakam
Ashtakam
1
(श्रीगरलपुरे) श्रीगणेशाय नमः॥
2
यः पादपपिहिततनुः प्रकाशतां परशुरामेण। नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः॥
3
यः कालं जितगर्वं कृत्वा क्षणतो मृकण्डुमुनिसूनुम्। निर्भयमकरोत्सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः॥
4
कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा। प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः॥
5
यदविद्यैव जगदिदमखिलं प्रतिभाति सत्यवत्पूर्वम्। ज्ञानात्सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः॥
6
यमिवृन्दवन्द्यचरणः कमिता धरणीधरेन्द्रतनयायाः। श्रीशादिवन्दितोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः॥
7
यो दक्षिणास्यरूपं धृत्वा विज्ञानदानकृतदीक्षः। मुग्धेभ्योऽपि स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः॥
8
अन्धोऽपि यत्करुणया चक्षुष्मान्भवति सत्वरं लोके। करुणानिधिः स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः॥
9
कपिलातटादृतगतिः कपिलादिमुनीन्द्रवन्द्यपदपद्मः। श्रीदः पायात्सततं श्रीकण्ठः पादनम्रकल्पतरुः॥
10
श्रीकण्ठाष्टकमेतत्पठति जनो यः कृतादरः सततम्। श्रीविद्यासदनं स प्रभवेन्नैवात्र सन्देहः॥