Shri Siddhasarayustotrashtakam
Ashtakam
1
श्रीरामनाममहिमानमुदीरयन्ती तद्धाम-साम-गुण-गौरवमुद्गीरन्ती। आपूर-पूर-परिपूत-गभीरघोषा दोषाटवी-विघटनं सरयूस्तनोतु॥
2
श्रीभारतीय-विजय-ध्वज-शैलराज- प्रोड्डीयमान-कलकेतन-कीर्तिवल्ली। श्रीमानसोत्तरसरः-प्रभवाद्यशक्ति- र्मूर्ता नदीशतनुता सरयूर्विभाति॥
3
साकेत-गौरवगिरः परिबृंहयन्ती श्रीराघवेन्द्रमभितःकिल दर्शयन्ती। गङ्गां भृगुप्रवरतीर्थमनुस्रवन्ती धन्या पुनातु सरयूर्गिरिराजकन्या॥
4
इक्ष्वाकुमुख्य-रविवंश-समर्चिताङ्घ्रि- र्दिव्यावदात-जलराशि-लसत्प्रवाहा। पापौघ -काननघटा -दहनप्रभावा दारिद्र्य-दुःख-दमनी सरयूर्धिनोतु॥
5
त्रैलोक्यपुण्यमिव विद्रुतमेकनिष्ठं निस्तन्द्र-चन्द्रकिरणामृत-लोभनीयम्। सर्वार्थदं सकल-मङ्गल-दानदक्षं वन्दे प्रवाहमतुलं ललितं सरय्वाः॥
6
नित्यं समस्त-जन-तापहरं पवित्रं देवासुरार्चितमुदग्र -समग्रधारम्। हारं हरेर्हरिण-रेणुविलासकूलं श्रीसारवं सलिलमुद्धमुपघ्नमीडे॥
7
वन्याः सरिद्-द्रुमलता-गज-वाजि-सिंहा हंसाः शुका हरिण-मर्कट-कोल-कीटाः। मत्स्या भुजङ्ग-कमठा अपि संश्रितास्त्वां पूज्या भवन्ति जगतां महिता महार्हाः॥
8
एकादशीमथ महानवमीं भजन्तो दिव्यावगाहनरता समुपेत्य धीराः। श्रीजानकीशचरणाम्बुज -दत्तचित्ता- नावर्तयन्ति भवमत्र जले सरय्वाः॥
9
पुण्यैर्धन्यैर्वसिष्ठादिभिरथ मुनिभिः सेवितां दिव्यदेहां गौराङ्गीं स्वर्णरत्नोज्ज्वल-पटल-लसद्-भूषणाख्यां दयार्द्राम्। श्रीनागेशाभिमुख्यां सुरवरझरिणीं सर्वसिद्धिप्रदात्रीं तोष्टये ब्रह्मरूप-प्रकटित-सरयूं कोटिसूर्य-प्रकाशाम्॥
10
देव्याः सरय्वाः स्तवनं सर्वमङ्गल-मङ्गलम्। श्रीरामेश्वरयोः सद्यो वशीकरणमुत्तमम्॥
11
काशीपीठाधिनाथेन शङ्कराचार्यभिक्षुणा। महेश्वरेण रचितः स्तवोऽयं सत्सु राजताम्॥