Shri Lakshmidhara Ashtakam
Ashtakam
1
मङ्गलं श्यामलं शीतलं कोमलं राधिकावल्लभं निर्मलं माधवम्। मूरलीमोहनं देवकीनन्दनं कृष्णनारायणं वासुदेवं भजे॥
2
श्रीधरं सुन्दरं विष्णुदामोदर- मिन्दिरावल्लभं देवपीताम्बरम्। गोपवृन्दारकं पापसङ्घातकं सौख्यविस्तारकं वासुदेवं भजे॥
3
दारवं भास्वरं गोलनेत्रोज्ज्वलं घोषयात्राकरं चारुलीलाकरम्। नीलशैलेश्वरं श्रीपुरीनागरं देवताशेखरं वासुदेवं भजे॥
4
भोगदं योगदं मोक्षदं केशवं भक्तपालं जगन्नाथ-पापापहम्। नीलमेघावृतं चेलचामीकृतं शान्तिदं स्वस्तिदं वासुदेवं भजे॥
5
राघवं बान्धवं जानकीनायकं दैत्यसन्तारकं सत्यसम्पालकम्। कोशले नन्दितं वासवैर्वन्दितं श्यामदूर्वादलं रामचन्द्रं भजे॥
6
नृसिंहं भीषणं दुष्टसंहारकं सर्वगं शाश्वतं सिद्धविद्याधरम्। लोकनाथं महाविष्णु-चक्रायुधं शर्वसर्वेश्वरं वासुदेवं भजे॥
7
केतनं नूतनं मन्दिरे शोभनं वेतनं देहि मे त्वत्पुरे सत्वरम्। गुण्डिचावामनं घोषयात्राधनं वेदवाणीश्वरं वासुदेवं भजे॥
8
स्यन्दने दर्शनं घोरतापापहं मन्दिरे निर्जितं कालिआ नामकम्। सम्पदापत्सु वा ब्रह्मदारुप्रियं कामनापूरकं वासुदेवं भजे॥