Shri Yoganandacharya Ashtakam

Ashtakam

1

रामानन्दार्यशिष्यं च योगीन्द्रं योगिसेवितम्। योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

2

जनानां मुक्तिदातारं भक्तियोगोपदेशतः। योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

3

रामानन्दकृतानन्दभाष्यतत्त्वोपदेशकम्। योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

4

ज्ञानवैराग्यपाथोधिं ज्ञानवैराग्यबोधकम्। योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

5

राममन्त्रप्रदं नित्यं रामाराधनतत्परम्। योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

6

प्राज्ञसिद्धविवादे च लब्धारं विजयश्रियः। योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

7

वक्तारं च रहस्यानां मुक्तिदानां तपोनिधिम्। योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

8

मन्त्रमालोर्ध्वपुण्ड्रादिसंस्काराणां विधायकम्। योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥