Shri Ganesha Mangala Ashtakam
Ashtakam
1
गजाननाय गाङ्गेय सहजाय सदात्मने। गौरीप्रियतनूजाय गणेशायास्तु मङ्गलम्॥
2
नागयज्ञोपवीताय नतविघ्नविनाशिने। नन्द्यादिगणनाथाय नायकायास्तु मङ्गलम्॥
3
इभवक्त्राय चेन्द्रादिवन्दिताय चिदात्मने। ईशानप्रेमपात्राय नायकायास्तु मङ्गलम्॥
4
सुमुखाय सुशुण्डाग्रोक्षिप्तामृतघटाय च। सुरवृन्दनिषेव्याय चेष्टदायास्तु मङ्गलम्॥
5
चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च। चरणावनतानर्थतारणायास्तु मङ्गलम्॥
6
वक्रतुण्डाय वटवे वन्याय वरदाय च। विरूपाक्षसुतायास्तु विघ्ननाशाय मङ्गलम्॥
7
प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे। प्रकृष्टपापनाशाय फलदायास्तु मङ्गलम्॥
8
मङ्गलं गणनाथाय मङ्गलं हरसूनने। मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलम्॥
9
श्लोकाष्टकमिदं पुण्यं मङ्गलप्रदमादरात्। पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये॥
10
इति श्रीगणेशमङ्गलाष्टकं सम्पूर्णम्। गणापतिमङ्गलाष्टकं॥