Shri Paramaguruprabhuvarashtakam

Ashtakam

1

प्रपन्नजननीवृति ज्वलति संसृतिर्ज्वालया यदीयनयनोदितातुलकृपातिवृष्टिर्द्रुतम्। विधूय दवथुं करोत्यमलभक्तिवाप्यौचितीं स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्॥

2

यदास्यकमलोदिता व्रजभुवो महिम्नां ततिः श्रुता बत विसर्जयेत्पतिकलत्रपुत्रालयान्। कलिन्दतनयातटी वनकुटीरवासं नयेत् स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्॥

3

व्रजाम्बुजदृशां कथं भवति भावभूमा कथं भवेदनुगतिः कथं किमिह साधनं कोऽधिकृत्। इति स्फुटमवैति को यदुपदेशभाग्यं विना स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्॥

4

तपस्वियतिकर्मिणां सदसि तार्किकानां तथा प्रतिस्वमतवैदुषीप्रकटनोढगर्वश्रियाम्। विराजति रविर्यथा तमसि यः स्वभक्त्योजसा स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्॥

5

किमद्य परिधास्यते किमथ भोज्यते राधया समं मदनमोहनो मदनकोटिनिमज्जितः। इतीष्टवरिवस्यया नयति योऽष्टयामान् सदा स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्॥

6

मृदङ्गकरतालिकामधुरकीर्तने नर्तयन् जनान् सुकृतिनो नटन् स्वयमपि प्रमोदाम्बुधौ। निमज्जति दृगम्बुभिःपुलकसङ्कुलःस्नाति यः स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्॥

7

समं भगवतो जनैः प्रवरभक्तिशास्त्रोदितं रसं सुरसयन्मुहुः परिजनांश्च यः स्वादयन्। स्वशिष्यशतवेष्टितो जयति चक्रवर्त्याख्यया स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्॥

8

स्थितिः सुरसरित्तटे मदनमोहनो जीवनं स्पृहा रसिकसङ्गमे चतुरिमा जनोद्धारणे। घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्॥

9

इदं प्रभुवराष्टकं पठति यस्तदीयो जन- स्तदङ्घ्रिकमलेष्टधीः स खलु रङ्गवत्प्रेमभाक्। विलासभृतमञ्जुल्याल्यतिकृपैकपात्रीभवन् निकुञ्जनिलयाधिपावचिरमेव तौ सेवते॥

10

इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीश्रीपरमगुरुप्रभुवराष्टकं सम्पूर्णम् ।॥