Shri Gandharvasamprarthanashtakam
Ashtakam
1
श्रीश्रीगान्धर्विकायै नमः। वृन्दावने विहरतोरिह किलेकुञ्जे मत्तद्विपप्रवरकौतुकविभ्रमेण। सन्दर्शयस्व युवयोर्वदनारविन्द द्वन्द्वं विधेहि मयि देवि कृपां प्रसीद॥
2
हा देवि काकुभरगद्गदयाद्य वाचा याचे निपत्य भुवि दण्डवदुद्भटार्तिः। अस्य प्रसादमबुधस्य जनस्य कृत्वा गान्धर्विके निजगणे गणनां विधेहि॥
3
श्यामे रमारमणसुन्दरतावरिष्ठ सौन्दर्यमोहितसमस्तजगज्जनस्य। श्यामस्य वामभुजबद्धतनुं कदाहं त्वामिन्दिराविरलरूपभरां भजामि॥
4
त्वां प्रच्छदेन मुदिरच्छविना पिधाय मञ्जीरमुक्तचरणां च विधाय देवि। कुञ्जे व्रजेन्द्रतनयेन विराजमाने नक्तं कदा प्रमुदितामभिसारयिष्ये॥
5
कुञ्जे प्रसूनकुलकल्पितकेलितल्पे संविष्टयोर्मधुरनर्मविलासभाजोः। लोकत्रयाभरणयोश्चरणाम्बुजानि संवाहयिष्यति कदा युवयोर्जनोऽयम्॥
6
त्वत्कुण्डरोधसि विलासपरिश्रमेण स्वेदाम्बुचुम्बिवदनाम्बुरुहश्रियो वाम्। वृन्दावनेश्वरि कदा तरुमूलभाजो संवीजयामि चमरीचयचामरेण॥
7
लीनां निकुञ्जकुहरे भवतीं मुकुन्दे चित्रैव सूचितवतीं रुचिराक्षि नाहम्। भुग्नां भ्रुवं न रचयेति मृषारुषां त्वां अग्रे व्रजेन्द्रतनयस्य कदा नु नेष्ये॥
8
वाग्युद्धकेलिकुतुके व्रजराजसूनुं जित्वोन्मदामधिकदर्पविकासिजल्पाम्। फुल्लाभिरालिभिरनल्पमुदीर्यमाण स्तोत्रां कदा नु भवतीमवलोकयिष्ये॥
9
यः कोऽपि सुष्ठु वृषभानुकुमारिकायाः संप्रार्थनाष्टकमिदं पठति प्रपन्नः। सा प्रेयसा सह समेत्य धृतप्रमोदा तत्र प्रसादलहरीमुररीकरोति॥
10
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीगान्धर्वासंप्रार्थनाष्टकं सम्पूर्णम् ।॥