Shri Gurucharanasmaranashtakam

Ashtakam

1

प्रातः श्रीतुलसीनतिः स्वकरतस्तत्पिण्डिकालेपनं तत्साम्मुख्यमथ स्थितिं स्मृतिरथ स्वस्वामिनोः पादयोः। तत्सेवार्थबहुप्रसूनचयनं नित्यं स्वयं यस्य तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ॥

2

मध्याह्ने तु निजेशपादकमलध्यानार्चनान्नार्पण प्रादक्षिणानतिस्तुतिप्रणयिता नृत्यं सतां सङ्गतिः। श्रीमद्भागवतार्थसीधुमधुरास्वादः सदा यस्य तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ॥

3

प्रक्षाल्याङ्घ्रियुगं नतिस्तुतिजयं कर्तुं मनोऽत्युत्सुकं सायं गोष्ठमुपागतं वनभुवो द्रष्टुं निजस्वामिनम्। प्रेमानन्दभरेण नेत्रपुटयोर्धारा चिराद्यस्य तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ॥

4

रात्रौ श्रीजयदेवपद्यपठनं तद्गीतगानं रसा स्वादो भक्तजनैः कदाचिदभितः सङ्कीर्तने नर्तनम्। राधाकृष्णविलासकेल्यनुभवादुन्निद्रता यस्य तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ॥

5

निन्देत्यक्षरयोर्द्वयं परिचयं प्राप्तं न यत्कर्णयोः साधूनां स्तुतिमेव यः स्वरसनामास्वादयत्यन्वहम्। विश्वास्यं जगदेव यस्य न पुनः कुत्रापि दोषग्रहः श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ॥

6

यः कोऽप्यस्तु पदाब्जयोर्निपतितो यः स्वीकरोत्येव तं शीघ्रं स्वीयकृपाबलेन कुरुते भक्तौ तु मत्वास्पदम्। नित्यं भक्तिरहस्यशिक्षणविधिर्यस्य स्वभृत्येषु तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ॥

7

सर्वाङ्गैर्नतभृत्यमूर्ध्नि कृपया स्वपादार्पणं स्मित्वा चारु कृपावलोकसुधया तन्मानसोदासनम्। तत्प्रेमोदयहेतवे स्वपदयोः सेवोपदेशः स्वयं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ॥

8

राधे ! कृष्ण ! इति प्लुतस्वरयुतं नामामृतं नाथयो- र्जिह्वाग्रे नटयन् निरन्तरमहो नो वेत्ति वस्तु क्वचित्। यत्किञ्चिद्व्यवहारसाधकमपि प्रेम्नैव मग्नोऽस्ति यः श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ॥

9

त्वत्पादाम्बुजसीधुसूचकतया पद्याष्टकं सर्वथा यातं यत्परमाणुतां प्रभुवर प्रोद्यत्कृपावारिधे। मच्चेतोभ्रमरोऽवलम्बा तदिदं प्राप्याविलम्बं भवत् सङ्गं मञ्जुनिकुञ्जधाम्नि जुषतां तत्स्वामिनोः सौरभम्॥

10

इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीगुरुचरणस्मरणाष्टकं सम्पूर्णम् ।॥