Mahamrityunjaya Ashtakam

Ashtakam

1

ॐ मृत्युञ्जय ! परेशान जगदामयनाशन !। तव ध्यानेन देवेश ! मृत्युं प्राप्तोऽपि जीवति॥

2

पञ्चास्यदोर्द्दण्डदशाङ्घ्रिनेमदिनेशभालेन्दुयुतं गणेशैः। वामाङ्गसंस्थागिरिजासमेतं वन्दे महामृत्युविनाशरूपम्॥

3

देवं मृत्युविनाशनं भयहरं साम्राज्यमुक्तिप्रदं नानाभूतगणान्वितं दिवि पदैर्देवैः सदा सेवितम्। अज्ञानान्धकनाशनं शुभकरं विद्यासुसौख्यप्रदं सर्वं सर्वपतिं महेश्वरहरं मृत्युञ्जयं भावये॥

4

वन्दे ईशानदेवाय नमस्तस्मै पिनाकिने। आदिमध्यान्तरूपाय मृत्युनाशं करोतु मे॥

5

नमस्तस्मै भगवते कैलासाचलवासिने। नमो ब्रह्मेन्द्ररूपाय मृत्युञ्जय प्रसीद मे॥

6

नमो विष्ण्वर्करूपाय नमो ज्ञानस्वरूपिणे। मृत्युं नाशयतामाशु मृत्युञ्जय प्रसीद मे॥

7

त्र्यम्बकाय नमस्तुभ्यं पञ्चास्याय नमो नमः। दोर्द्दण्डचापाय नमो मम मृत्युं विनाशय॥

8

नमोऽर्धेन्दुस्वरूपाय नमो दिग्वसनाय च। नमो भक्तार्तिहन्त्रे च मम मृत्युं विनाशय॥

9

मृत्युञ्जयाष्टकं दिव्यं त्रिकाले यः पठेन्नरः। अपमृत्युर्व्रजेत्तस्य सत्यं सत्यं शिवाज्ञया॥

10

अर्धरात्रे जपेन्नित्यं चतुरशीतिसङ्ख्यया। काले मृत्युर्विनश्येत अकालाल्पस्य का कथा॥

11

आलस्येनाप्रसङ्गेन श्रद्धाहीनेन चेतसा। पठेद्यद्यप्यकालेषु ध्रुवं मृत्युं निवारयेत्॥

12

इति महामृत्युञ्जयाष्टकम्॥