Shri Karmachandracharya Ashtakam

Ashtakam

1

तारकादिरहस्यानां रहस्यज्ञं च बोधकम्। कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

2

सिंहं वादिगजेन्द्राणां विशिष्टाद्वैतवादिनम्। कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

3

दुराचारापहर्त्तारं सदाचारप्रचारकम्। कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

4

आस्तिक्यत्वविधातारं नास्तिकत्वविनाशकम्। कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

5

रामभक्तिप्रदानेन मुक्तिसौलभ्यकारकम्। कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

6

रामानन्दीयधर्मस्य रक्षितारं च शिक्षकम्। कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

7

शिष्याणां पञ्चसंस्कारैर्योग्यतापादकं परम्। कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

8

आनन्दभाष्यवेत्तारं बुधैः सिद्धैश्च सेवितम्। कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥