Shri Svapnavilasamritashtakam

Ashtakam

1

प्रिये ! स्वप्ने दृष्टा सरिदिनसुतेवात्र पुलिनं यथा वृन्दारण्ये नटनपटवस्तत्र बहवः। मृदङ्गाद्यं वाद्यं विविधमिह कश्चिद्द्विजमणिः स विद्युद्गौराङ्गः क्षिपति जगतीं प्रेमजलधौ॥

2

कदाचित्कृष्णेति प्रलपति रुदन् कर्हिचिदसौ क्व राधे हा हेति श्वसिति पतति प्रोञ्झति धृतिम्। नटत्युल्लासेन क्वचिदपि गणैः स्वैः प्रणयिभि- स्तृणादिब्रह्मान्तं जगदतितरां रोदयति सः॥

3

ततो बुद्धिर्भ्रान्ता मम समजनि प्रेक्ष्य किमहो भवेत्सोऽयं कान्तः किमयमहमेवास्मि न परः। अहं चेत्क्व प्रेयान्मम स किल चेत्क्वाहमिति मे भ्रमो भूयो भूयानभवदथ निद्रां गतवती॥

4

प्रिये ! दृष्ट्वा तास्ताः कुतुकिनि मया दर्शितचरी रमेशाद्या मूर्तीर्न खलु भवती विस्मयमगात्। कथं विप्रो विस्मापयितुमशकत्त्वां तव कथं तथा भ्रान्तिं धत्ते स हि भवति को हन्त किमिदम्॥

5

इति प्रोच्य प्रेष्ठां क्षणमथ परामृष्य रमणो हसन्नाकूतज्ञं व्यनुददथ तं कौस्तुभमणिम्। तथा दीप्तं तेने सपदि स यथा दृष्टमिव त- द्विलासानां लक्ष्मं स्थिरचरगणैः सर्वमभवत्॥

6

विभाव्याथ प्रोचे प्रियतम मया ज्ञातमखिलं तवाकूतं यत्त्वं स्मितमतनुथास्तत्त्वमसि सः। स्फुटं यन् नावदीर्यदभिमतिरत्राप्यहमिति स्फुरन्ती मे तस्मादहमपि स एवेत्यनुमिमे॥

7

यदप्यस्माकीनं रतिपदमिदं कौस्तुभमणिं प्रदीप्यात्रैवादीदृशदखिलजीवानपि भवान्। स्वशक्त्याविर्भूय स्वमखिलविलासं प्रतिजनं निगद्य प्रेमाब्धौ पुनरपि तदाधास्यसि जगत्॥

8

यदुक्तं गर्गेण व्रजपतिसमक्षं श्रुतिविदा भवेत्पीतो वर्णः क्वचिदपि तवैतन् न हि मृषा। अतः स्वप्नः सत्यो मम च न तदा भ्रान्तिरभवत् त्वमेवासौ साक्षादिह यदनुभूतोऽसि तदृतम्॥

9

पिबेद्यस्य स्वप्नामृतमिदमहो चित्तमधुपः स सन्देहस्वप्नात्त्वरितमिह जागर्ति सुमतिः। अवाप्तश्चैतन्यं प्रणयजलधौ खेलति यतो भृशं धत्ते तस्मिन्नतुलकरुणां कुञ्जनृपतिः॥

10

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीस्वप्नविलासामृताष्टकं सम्पूर्णम् ।॥