Shri Shankaracharya Ashtakam

Ashtakam

1

विश्वस्य यः सकलमङ्गलधारणाय पूर्णातटे विधृतवान् मनुजावतारम्। तं पादनम्रजनतापनगेन्द्रवज्रं श्रीशङ्करं यतिवरं शिरसा नमामि॥

2

यस्यास विश्वमिव नन्दकुमारवक्त्रे शास्त्राकरः किमपि बालविशालबुद्धौ। प्रज्ञाप्रभास्तिमितपण्डितमण्डलं तं श्रीशङ्करं शिवगुरोस्तनयं नमामि॥

3

सञ्चर्य येन पवनेन यथाऽर्यभूमौ वेदेषु दुष्टरचिताऽपहृता च धूलिः। तं तार्किकादिमदमत्तगजेन्द्रसिंहं श्रीशङ्करं शिवकरं सततं नमामि॥

4

भाष्यत्रयं मतिमलापहरं विरच्य कैवल्यमार्ग इव यो निदधौ प्रदीपान्। तं सर्वशास्त्रनिगमागमहृद्गतज्ञं श्रीशङ्करं भयहरं सदयं नमामि॥

5

येन स्वकीययशसा परमोज्ज्वलेन दिग्वारणाः समभिषिच्य कृताः सुशुभ्राः। पाखण्डदुष्टमतखण्डनलब्धकीर्तिं श्रीशङ्करं सकललोकहितं नमामि॥

6

अद्वैततत्त्वममलं श्रुतिसम्मतं च येनोपदिष्टमिह जीवशिवैक्यकारि। संसारदुस्तरसमुद्रमहातरं तं श्रीशङ्करं विनतकल्पतरुं नमामि॥

7

काश्मीरदेशगतपीठमनन्यभुक्तं श्रीशारदाख्यमधिरुह्य च योदिदेश। अद्वैततत्त्वमहतीं पुनरेकदा तं श्रीशङ्करं निरुपमेयकृतिं नमामि॥

8

संस्थाप्य धर्ममपहृत्य परामविद्यां सत्यं प्रकाश्य जनतोपकृतास्ति येन। ध्येयार्थमेव कृतभूरिचमत्कृतिं तं श्रीशङ्करं प्रवरयोगिवरं नमामि॥

9

पापोऽस्मि मन्दमतिरस्मि तथानधीतः सत्यं परं त्वमसि शङ्कर दीनबन्धुः। आलोकयायि शिव वत्सलवीक्षितैर्मां इत्येव दासगणुशिष्यलवस्य कामः॥

10

इति स्वामीवरदानन्दभारतीकृतं श्रीशङ्कराचार्याष्टकं सम्पूर्णम् ।॥