Shri Malukadasacharya Ashtakam
Ashtakam
1
आनन्दभाष्यकारस्य धर्मस्य परिरक्षकम्। वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम्॥
2
अर्पयित्वा भरं रामे सन्तोषामृतपायिनम्। वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम्॥
3
रार्मानन्दकृतानन्दभाष्यसिद्धान्तपालकम्। वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम्॥
4
भक्त्या चाथ प्रत्यत्त्या च कर्मबन्धननाशकम्। वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम्॥
5
रामकीर्त्तनकर्त्तारं रामभक्तिप्रचारकम्। वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम्॥
6
मन्त्रमालोर्ध्वपुण्ड्रादेः शिष्येभ्यः सम्प्रदायकम्। वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम्॥
7
व्याख्यातारं रहस्यानां त्रयाणां तत्त्वकोविदम्। वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम्॥
8
सिद्धवादिसमूहस्य विजेतारं तपस्विनम्। वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम्॥