Ganeshashtakam 2

Ashtakam

1

गणपति-परिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम्। भव-भय-परिहारदुःख-दारिद्र्य-दूरं- गणपतिमभिवन्देवक्रतुण्डावतारम्॥

2

अखिलमलविनाशम्पाणिनाहस्तपाशं- कनकगिरिनिकाशंसूर्यकोटिप्रकाशम्। भजभवगिरिनाशमालतीतीरवासं- गणपतिमभिवन्देमानसेराजहंसम्॥

3

विविध-मणिमयूखैः शोभमानं विदूरैः- कनक-रचित-चित्रङ्कण्ठदेशेविचित्रम्। दधति विमलहारं सर्वदा यत्नसारं गणपतिमभिवन्दे वक्रतुण्डावतारम्॥

4

दुरितगजममन्दं वारुणीं चैव वेदं विदितमखिलनादं नृत्यमानन्दकन्दम्। दधतिशशिसुवक्त्रं चाङ्कुशंयोविशेषं गणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम्॥

5

त्रिनयनयुतभालेशोभमाने विशाले- मुकुट-मणि-सुढाले मौक्तिकानां च जाले। धवलकुसुममाले यस्य शीर्ष्णः सताले गणपतिमभिवन्दे सर्वदा चक्रपाणिम्॥

6

वपुषि महति रूपं पीठमादौ सुदीपं तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम्। गजमितदलपद्मं संस्थितं चारुछद्मं गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे॥

7

वरदविशदशस्तं दक्षिणं यस्य हस्तं सदयमभयदं तं चिन्तये चित्तसंस्थम्। शबलकुटिलशुण्डञ्चैकतुण्डं द्वितुण्डं गणपतिमभिवन्दे सर्वदा वक्रतुण्डम्॥

8

कल्पद्रुमाधःस्थित-कामधेनुं चिन्तामणिं दक्षिणपाणिशुण्डम्। बिभ्राणमत्यद्भूतचित्तरूपं यः पूजयेत् तस्य समस्तसिद्धिः॥

9

व्यासाऽष्टकमिदं पुण्यं गणेशस्तवनं नृणाम्। पठतां दुःखनाशाय विद्यां संश्रियमश्नुते॥