shrIgokuleshashayanAShTakam
Ashtakam
1
प्रातः स्मरामि गुरुगोकुलनाथसंज्ञं संसारसागरसमुत्तरणैकसेतुम्। श्रीकृष्णचन्द्रचरणाम्बुजसर्वकाल- संशुद्धसेवनविधौ कमलावतारम्॥
2
प्रस्वाप्य नन्दतनयं प्रणयेन पश्चा- दानन्दपूर्णनिजमन्दिरमभ्युपेतम्। स्थूलोपधानसहितासनसन्निषण्णं श्रीगोकुलेशमनिशं निशि चिन्तयामि॥
3
अभ्यग्रभक्तकरदत्तसिताभ्रयुक्तं ताम्बूलपूर्णवदनं सदनं रसाब्धेः। आवेष्टितं परित आत्मजनैरशेषैः श्रीगोकुलेशमनिशं निशि चिन्तयामि॥
4
जाते तथा प्रभुकथाकथने तदानी- मुत्थापिते परिचयेण पृथूपधाने। गन्तुं गृहाय सुहृदः स्वयमुक्तवन्तं श्रीगोकुलेशमनिशं निशि चिन्तयामि॥
5
नित्योल्लसन्नवरसौघनिवासरूपं सौन्दर्यनिर्जितजगज्जयिकामभूपम्। स्वप्रेयसीजनमनोहरचारुवेषं सञ्चिन्तयामि शयने निशि गोकुलेशम्॥
6
कस्तूरिकादितनुलेपविसारिगन्धं पुष्पस्रगन्तरलसत्तनुमौलिबन्धम्। संवाहिताङ्घ्रियुगलं निजमुख्यभक्तैः सञ्चिन्तयामि शयने निशि गोकुलेशम्॥
7
सप्रेमहास्यवचनैः कतिचित्स्वकीयान् स्थित्वा क्षणं निजगृहाय निदिष्टवन्तम्। शय्योपवेशसमयोचित्तवेषभाजं सञ्चिन्तयामि शयने निशि गोकुलेशम्॥
8
निद्रागमात् प्रथमतो निजसुन्दरीभिः संसेवितं तदखिलेन्द्रियवृत्तिभाग्यम्। शृङ्गारसारमधिराजमुदारवेषं सञ्चिन्तयामि शयने निशि गोकुलेशम्॥
9
स्वच्छोपरिच्छदलसच्छयनोपविष्टं सस्नेहभक्तसुखसेवितपादपद्मम्। निद्रावधूस्वसमयेप्सितसङ्गसौख्यं सञ्चिन्तयामि शयने निशि गोकुलेशम्॥
10
श्रीगोकुलेशशयनाष्टकमादरेण श्रीकृष्णरायरचितं सरसार्थपद्यम्। सञ्चिन्तिताखिलफलप्रदमिष्टसिद्ध्यै सञ्चिन्तयन्तु निशि तच्चरणैकचित्ताः॥