Shri Agradevacharya Ashtakam
Ashtakam
1
रामानन्दकृतानन्दभाष्याम्भोजप्रभाकरम्। वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
2
साध्यसाधनभक्त्योश्च शिक्षकं सिद्धपूजितम्। वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
3
ज्ञापकं जीवमायेशतत्त्वानां सात्त्विकं मुनिम्। वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
4
अष्टयामविधानज्ञं रामकीर्त्तनतत्परम्। वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
5
धर्मरक्षापरं सीतारामभक्तिरसाम्बुदम्। वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
6
वादे वादिविजेतारं भक्तिदानेन मुक्तिदम्। वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
7
रहस्यानां त्रयाणां च व्याख्यातारं तपोनिधिम्। वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
8
शिष्याणां पञ्चसङ्कारैवैष्ण्वत्वविधायकम्। वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम्॥