Shri Bhagavannimbarkamahamunindra Ashtakam
Ashtakam
1
श्री राधासर्वेश्वरो विजयते॥
2
श्री भगवन्निम्बार्काचार्याय नमः॥
3
-गोपालसिंहो जिज्ञासु सदा हंसं वन्दे तपसि सनकादींश्च निरतान् ततो वीणापाणिं मुनिवर महन्नारदमृषिम्। समुत्सार्याऽविद्यां जनयति विवेकं हृदि परम् भजे निम्बादित्यं भवभय-विनाशाय सततम्॥
4
महाराष्ट्रे ``मूङ्गी''-त्यभिध-नगरे पैठणयुते सुनद्याः गोदायाः शुचितमतटे कृष्ण-वचनात्। ``जयन्ती'' गर्भात् श्रीअरुणमुनिगेहे सुविमले स्वभक्तानां प्रीत्यै ह्यजनि नियमानन्द वपुषा॥
5
समेषां मन्त्राणामधिपतिरिहाष्टादश मिताऽक्षरैर्युक्तो मन्त्रस्तमधिगतवान्नारदमुनेः। सनत्सेव्यं गुञ्जाफल-सदृश-चक्राङ्कितमसौ तथा शालिग्रामं भुवनधवसर्वेश्वरमिमम्॥
6
अविद्याग्रस्तानां सरलपथमाश्रित्य गतये अधोनिम्बं देवो गिरिवर-समीपे व्रजभुवि। श्रुतिज्ञोऽनूचानो गुण-निवहयुक्तो विमलधीः समाधिस्थस्तेपे विगतभयकोपोऽमित तपः॥
7
दिवा-भोजी दण्डी रहसि नियमानन्दमवदत् प्रसादं याचे त्वामहनि परिगृह्णामि निशि च नो। प्रदर्श्यार्कं निम्बे तदनु यतये नक्तममुना प्रदत्तं निम्बार्को यम-नियम-वेत्ताऽभवदहो॥
8
स्वयं धाताऽऽयातः कपटयतिवेशे भ्रमयुतः वतारं चक्रस्य प्रखरमहसा सूर्यशतकम्। तिरस्कर्त्तुं शक्तं प्रकृतिपरिणामेन रहितम् परिच्छेत्तुं क्वेशो यमिह तमहं स्तौम्यभयदम्॥
9
दशश्लोकी शास्त्रागम-निगम-तत्त्वेन सहिता प्रपञ्चं मायायाः प्रणिगदति जीवं बहुविधम्। परब्रह्मज्ञानं गमयति समासाच्च विमलम् प्रणीता यैस्तेभ्यो भवभयहरेभ्यो मम नमः॥
10
द्वयोर्भावो द्वैतं न भवति तदद्वैतमिति च इदं द्वैताद्वैतं सकलभुवनेष्वस्ति विततम्। मुनीन्द्रो निम्बार्कः श्रुतिनिकरसारं प्रकटयन् शशीवोच्चैरास्ते हि भ-सदसि वेदान्तगगने॥