govindAShTakam by Swami Brahmananda
Ashtakam
1
श्री गणेशाय नमः॥
2
चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम्। रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे॥
3
महाम्भोदिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम्। मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदम् सदा तं गोविन्दं परमसुखकन्दं भजत रे॥
4
धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरैः महावाक्यैज्ञेयं त्रिभुवनविधेयं विधिपरम्। मनोमानामेयं सपदि हृदि नेयं नवतनुं सदा तं गोविन्दं परमसुखकन्दं भजत रे॥
5
महामायाजालं विमलवनमालं मलहरं सुबालं गोपालं निहतशिशुपालं शशिमुखम्। कलातीतं कालं गतिहतमरालं मुररिपुं सदा तं गोविन्दं परमसुखकन्दं भजत रे॥
6
नभोबिम्बस्फीतं निगमगणगीतं समगतिं सुरौघे सम्प्रीतं दितिजविपरीतं पुरिशयम्। गिरां पन्थातीतं स्वदितनवनीतं नयकरं सदा तं गोविन्दं परमसुखकन्दं भजत रे॥
7
परेशं पद्मेशं शिवकमलजेशम् शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम्। खगेशं नागेशं निखिलभुवनेशं नगधरं सदा तं गोविन्दं परमसुखकन्दं भजत रे॥
8
रमाकान्तं कान्तं भवभयलयान्तं भवसुखं दुराशान्तं शान्तं निखिलहृदि भान्तं भुवनपम्। विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं सदा तं गोविन्दं परमसुखकन्दं भजत रे॥
9
जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम्। स्वनिष्ठं धार्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा तं गोविन्दं परमसुखकन्दं भजत रे॥
10
गदापाणेरेतद्दुरितदलनं दुःखशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम्। स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनो वरं विष्णोः स्थानं व्रजति खलु वैकुण्ठभुवनम्॥
11
इति श्री परमहंस स्वामि ब्रह्मानन्द विरचितं श्री गोविन्दाष्टकं सम्पूर्णम्॥