Shri Vivekananda Ashtakam

Ashtakam

1

दधद् दिव्यज्योतिः परमरमणीयं नयनयोः प्रसन्नास्यः सौम्यो मुनिकनकशोभाधरवपुः। सुधीः सत्यद्रष्टा भुवनवरणीयः श्रुतिधरो विवेकानन्दोऽसौ मनुजतनुधारी स्मरहरः॥

2

किशोरो ध्यानस्थो भुजगभयशून्यो ह्यविचलो युवा दण्डी वैश्वानरसदृशदीप्तिर्भुवि चरन्। स्वधर्म-भ्रष्टानां कलुषित-धियां त्राणनिरतो विवेकानन्दोऽसौ गहनतिमिरे भास्वररविः॥

3

गुरोरन्तेवासी परमपुरुषस्य प्रियतमो नरेन्द्रः सर्वेषामवनतजनानामभयदः। प्रतिज्ञायां भीष्मो विपदि च महीध्रोन्नतशिरो विवेकानन्दोऽसौ कुसुमललितो वज्रकठिनः॥

4

गृहे वित्ताभावाद्विचलितमनाः शान्तिरहितो गतो बारं बारं गुरुवचनतो मातृसदनम्। ``धनं मातर्देही'' इत्यनुनयवचस्तु प्रतिहतं विवेकानन्दः किं भवति धनतृष्णावशगतः ?॥

5

गुरोः पादं ध्यात्वा किमपि नवतेजो हृदि वहन् महासिन्धुं तीर्त्वा निखिलजगतो धर्मसदसि। नवीनः संन्यासी विजित जयमाल्यो बहुमतो विवेकानन्दोऽसौ भुवनविजयी भारतनिधिः॥

6

अविद्याया बैरी श्रुतिविहितविद्यामधुकरः सुखे चानासक्तः परमपदचिन्तास्थिरमतिः। जगत् सेवा मन्त्रैर्जगदधिपतेः पूजनपरो विवेकानन्दोऽसौ भुवि सुविरलो मानवगुरुः॥

7

दरिद्राणां बन्धुर्निखिलमनुजानां प्रियकरः समो ज्ञाने कर्मण्यविचलितभक्त्यां गुरुपदे। समः शत्रौ मित्रेऽप्रतिममहिमोद्दीप्ततपनो विवेकानन्दो मे हृदयगगने भातु सततम्॥

8

अभय वरद मूर्तिःकालिका-विश्वधात्री- चरणकमल संस्थौ शारदा-रामकृष्णौ। शरणगत विवेकानन्द सानन्दमूर्तिः भवभयहरशून्यं पश्य रे मुग्धनेत्रे !॥