Shri Nrisimhasarasvati Prarthana Ashtakam

Ashtakam

1

%१०६ ऋतकृत्स्वगिरोऽमरोऽभवद् द्विजपत्न्यास्तनयोऽपि योऽभवः। स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः॥

2

प्रणवं प्रपपाठ जन्मतो विजहाराल्पदशोऽपि सन्मतः। स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः॥

3

मृतविप्रसुतं व्यजीवयद्य उ वन्ध्यामहिषीमदोहयत्। स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः॥

4

स्वतनुं यतये व्यदर्शयद्-द्विजगर्वं बुरुडाद्व्यनाशयत्। स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः॥

5

प्रददौ हि मृतप्रियस्त्रिया अपि सौभाग्यमु यन्नमस्क्रिया। स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः॥

6

स्वमुदेऽभवदन्नवृद्धिकृत् सुवशायाऽपि वंशवृद्धिकृत्। स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः॥

7

द्रुरकार्यपि शुष्ककाष्ठतः कुसुरौ येन शुची च कुष्ठतः। स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः॥

8

अमराख्यपुरे च योगिनीवरदो योऽखिलदोऽस्ति योगिनीः। स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः॥

9

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनृसिंहसरस्वतीस्तोत्रं सम्पूर्णम् ।॥