Shri Ramakabiracharya Ashtakam
Ashtakam
1
रामानन्दयतीन्द्रस्य शिष्यं धर्मप्रवर्धकम्। वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम्॥
2
आनन्दभाष्यसिद्धान्तवेदिनं जितवादिनम्। वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम्॥
3
महात्मानं महासिद्धं सिद्धयोगीन्द्रसेवितम्। वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम्॥
4
दयालुं राममन्त्रस्योपदेष्टारं तपोनिधिम्। वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम्॥
5
लोकानां हितकर्त्तारं रामकीर्त्तनशिक्षया। वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम्॥
6
सत्यादिधर्मवक्तारं दम्भिनां दम्भखण्डकम्। वन्दे रामकवीरार्यं द्वाराचार्यं जगदुरुम्॥
7
संस्काराणां च मालोर्ध्वपुण्ड्रादीनां च रक्षकम्। वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम्॥
8
राममन्त्रादिकानां च रहस्यानां प्रबोधिनम्। वन्दे रामकवीरार्यं द्राराचार्यं जगद्गुरुम्॥