Shri Narayanastavana Ashtakam

Ashtakam

1

महातेजःपुञ्जस्फुरदमलसिंहासनवरे स्थितं सर्वाधीशं नखकिरणविद्योतितसभम्। सितच्छत्रं पार्श्वस्फुरदमलसच्चामरयुगं भृशं धन्यो लब्ध्वा नयनपथि नारायणमहम्॥

2

हसद्वक्त्राम्भोजं चपलनयनालोकितजनं लसन्मुक्ताहारं विविधकुसुमापीडमुकुटम्। प्रपञ्चत्प्रावारं चरणविलसन्नूपुरमिदं हरे ! रूपं नित्यं मम मनसि सम्यक् स्फुरतु ते॥

3

ढं विश्वासो मे तव चरणपद्माश्रितजनो भवाम्भोधेः पारं व्रजति सहसा त्वत्करुणया। त्वमेवैकः स्वामी सकलजगतामित्यपि हरे विदित्वा पादौ ते दृढतरमहं ह्याश्रयमिमौ॥

4

न जाने शास्त्राणां विविधमतसन्निर्णयमहं पुराणव्रातानामपि च बहुकल्पाश्रितकथाः। नवा देवर्षीणां पृथगिह मनोरञ्जनविधि परं जाने स्वामिन् ! भ्रमणहरणं तेऽत्र शरणम्॥

5

तपो नोग्रं तप्तं व्रतनियमदानानि च मया न चेष्टापूर्तं वा श्रवणमननाभ्यासदृढता। न चीर्णान्याप्तुं त्वामिह तदपि यस्त्वं दृशि गतो न जाने तद्धेतुं त्वदतितरकारुण्यत ऋते॥

6

भृशं पापव्रातैर्मदनमदमानादिभिरपि प्रभो ! ग्रस्तस्यालं तव चरणपद्मेक्षणमिदम्। कथङ्कारं मे स्याद्यदि न पुरुकारुण्यपदवीं श्रथा नाथ ! त्वं त्वयि हि तदिदं केवलमहो॥

7

बलं नो मे बुद्धेर्न च सुदृढवैराग्यविलस- -न्निजात्मज्ञानस्य प्रचुरनियमानामपि हरे !। विमोक्तुं संसारान्निरतिशयमेकं हि बिरुदं विलोक्य स्वीयं मां भवजलनिधेरुद्धर निजम्॥

8

न जाने धर्माणामतिगहनकर्तव्यसरणि न शास्त्रं मन्त्राणां न च विविधतन्त्रागमविधिम्। न वा भक्तैः कृत्यं तव चरणपद्मार्चनविधिं ततो वन्दे दीनस्तव पदयुगं दण्डवदहम्॥

9

इति श्रीसत्सङ्गिजीवने तृतीयप्रकरणे चतुर्दशे-अध्याये दीनानाथ भट्टकृतं श्रीनारायणस्तवनाष्टकं सम्पूर्णम् ।॥