Shri Tunga Ashtakam

Ashtakam

1

%६५ तुङ्गा तुङ्गतरङ्गवेगसुभगा गङ्गासमा निम्नगा रोगान्ताऽवतु सह्यसंज्ञितनगाज्जातापि पूर्वाब्धिगा। रागाद्यान्तरदोषहृद्वरभगा वागादिमार्गातिगा योगादीष्टसुसिद्धिदा हतभगा स्वङ्गा सुवेगापगा॥

2

स्वसा कृष्णावेणीसरित उत वेणीवसुमणी- प्रभापूतक्षोणीचकितवरवाणीसुसरणिः। अशेषाघश्रेणीहृदखिलमनोध्वान्ततरणिर्दृढा स्वर्निश्रेणिर्जयति धरणीवस्त्ररमणी॥

3

दृढं बध्वा क्षिप्ता भवजलनिधौ भद्रविधुता भ्रमच्चित्तास्त्रस्ता उपगत सुपोता अपि गताः। अधोधस्तान्भ्रान्तान्परमकृपया वीक्ष्य तरणिः स्वयं तुङ्गा गङ्गाभवदशुभभङ्गापहरणी॥

4

वर्धा सधर्मा मिलितात्र पूर्वतो भद्रा कुमुद्वत्यपि वारुणीतः। तन्मध्यदेशेऽखिलपापहारिणी व्यालोकि तुङ्गाऽखिलतापहारिणी॥

5

भद्रया राजते कीत्र्या या तुङ्गा सह भद्रया। सन्निधिं सा करोत्वेतं श्रीदत्तं लघुसन्निधिम्॥

6

गङ्गास्नानं तुङ्गापानं भीमातीरे यस्य ध्यानं लक्ष्मीपुर्या भिक्षादानं कृष्णातीरे चानुष्ठानम्। सिंहाख्याद्रौ निद्रास्थानं सेवा यस्य प्रीत्या ध्यानं सद्भक्तायाक्षय्यं दानं श्रीदत्तास्यास्यास्तु ध्यानम्॥

7

(गोमूत्रिकाबन्ध) तुङ्गापगा महाभङ्गा पातु पापविनाशिनी। रागातिगा महागङ्गा जन्तुतापविनाशिनी॥

8

(हारबन्धः) हर परमरये समस्तमदामयान् खलबलदलनेऽघमप्यमले मम। हरसि रसरसे समस्तमनामलं कुरु गुरुकरुणां समस्तमते मयि॥

9

वेगातुङ्गापगाघं हरतु रथरया देवदेवर्षिवन्द्या वारं वारं वरं यज्जलमलमलघुप्राशने शस्तशर्म। श्रीदत्तो दत्तदक्षः पिबति बत बहु स्याः पयः पद्मपत्रा- क्षीं तामेतामितार्थां भज भज भजतां तारकां रम्यरम्याम्॥

10

इति श्रीवासुदेवानन्दसरस्वतीविरचितं तुङ्गाष्टकं सम्पूर्णम् ।॥