Navaratna Yamuna Ashtaka Stotram

Ashtakam

1

कदाचित्ते तीरे जननि जननी वाक्यममृतं गृहीत्वा शुद्धत्वं ध्रुवपदमगान्मातृसहितः। महिम्नः श्रुत्वा ते प्रचुरतरवित्तिं ध्रुवजनः तपस्तप्त्वा सद्यः शरणमिति यातस्तवतटम्॥

2

कदाचित्ते देव्याः सकलजनुरुत्तारणपयः विहारस्थाने वै प्रकटिततरङ्गेः पटुतरम्। सदा स्वस्थैर्देवैः सरलहृदयैः सेविततमं वयं पीत्वा कुर्म्मः प्रचुरकलुषं सम्प्रति हतम्॥

3

कदाचिन्मे भाग्यात्तव तरणितीरे भवहरे ! महद्वृन्दाटव्यां किमपि जननं मे भवतु वा। गवां रम्ये स्थाने परिरटनपाटीहरहरे ! भविष्यत्येषां वै जननिजनुषोर्भूरिमहिमा॥

4

कदाचिन्मे चित्तं हरिचरणसेवां प्रसरतु भवद्वात्सल्याद्वै सुरमनुजभक्तैः परिचिताम्। सदा ते वेलायां भव कमलपुष्पैः परिहृता इयं मे वाञ्छा स्यात्तव तट सुसेवा भवतु तवा॥

5

कदाचिन्मे मातर्मदुपरि कृपा ते सुकृतजा भविष्यत्येषा वै तव जलतरङ्गोञ्झुलितिभीः। हरेः सान्द्रं रूपं मदततिघनश्यामममलं अहं द्रक्ष्ये सौम्यं सखिजनपरीतं तब तटे॥

6

कदाचिन्मार्तण्डी विषयरसखण्डी कलुषजा प्रचण्डी स्वावेगैर्जगदघविखण्डी स्वयशसा। शिवा शान्ता नित्यं तरलसरलैः शोभिततरां ममाभीष्टं देयाद्व्रजजनसुसेवां तव तटे॥

7

कदाचित्कालिन्दी मुनिवरवरैः सेविततटी हरे ! विष्णो ! राधे ! सुरटनपरैः कूजितकुटी। प्रवाहे किं शब्दैः प्रियरमणकान्तं परिरटी किमन्यद्याञ्चाभिः प्रभवतु सदा मे भववटी॥

8

कदाचिच्छ्रीकृष्णे दृढतमकृतान् पापनिचयान् कुरुत्वं दृष्टिं मां तव महिमनित्वं भव दृढा। कदा भ्रातुर्लोकं बहुतरहठो मे प्लुतजला अतो मे मायां तां हरतु जननि प्रार्थनमिदम्॥

9

नवरत्नमिदं पुण्यं प्रातः सायं पठेन्नरः। हरिस्तस्मै प्रसन्नो वै ददाति फलमीप्सितम्॥

10

नवरत्नात्परं किञ्चिन्नान्यदस्ति महीतले। सर्ववेदेतिहासानां सारं ह्यस्मिन्नुदाहृतम्॥