bhAvanAShTakam

Ashtakam

1

अंगनामंगनामन्तरे विग्रहं कुण्डलोद्भासितं दिव्यकर्णद्वयम्। बिभृतं सुस्थितं योगपीठोत्तमे सन्ततं भावये श्रीपतीशात्मजम्॥

2

१ मोहनीयाननं श‍ृङ्गपर्वस्थितं काननेषु प्रियावासमत्यद्भुतम्। दीनसंरक्षणकं वासवेनार्चितं सन्ततं भावये श्रीपतीशात्मजम्॥

3

२ कोमळम् कुन्तळं स्निग्धमत्यद्भुतं बिभृतं मोहनं नीलवर्णाञ्चितम्। कामदं निर्मलं भूतवृन्दावृतं सन्ततं भावये श्रीपतीशात्मजम्॥

4

३ अंबरं दिव्यनीलद्युतिं शोभनं अंबुवर्णोपमं गात्रशोभाकरम्। बिम्बमत्यद्भुताकारजं बिभृतं सन्ततं भावये श्रीपतीशात्मजम्॥

5

४ वाहनं तुङ्गमश्वोत्तमं सुन्दरं सैन्धवं संश्रितं विश्ववश्याकृतिम्। बान्धवं बन्धुहीनाश्रितं मोहनं सन्ततं भावये श्रीपतीशात्मजम्॥

6

५ भासितं वक्षसा हारमुक्ताञ्चितं देवदेवार्चितं केरळेसुस्थितम्। भूसुरैर्वन्दितं दिव्यपीठस्थितं सन्ततं भावये श्रीपतीशात्मजम्॥

7

६ पावनं पङ्कजं दिव्यपादद्वयं बिभृतं भक्तसंघ प्रशोभ्यंघ्रिकम्। कामदं मोक्षदं तारकं सादरं सन्ततं भावये श्रीपतीशात्मजम्॥

8

७ विग्रहं मङ्गळं सर्वकामार्थदं अग्रिमैर्वन्दितं दीनरक्षात्मकम्। भूषणैर्मण्डितं मालयाराजितं सन्ततं भावये श्रीपतीशात्मजम्॥

9

८ इति भावनाष्टकं सम्पूर्णम्॥