svaprabhusvarUpanirUpaNAShTakam
Ashtakam
1
स्वामिनीभावगौरस्य स्वस्वरूपं प्रपश्यतः। कटाक्षैर्विठ्ठलेशस्य श्यामताचित्रितं वपुः॥
2
स्वास्मिन्नभयभावेन स्वेषामुभयरूपताम्। स्पष्टं बोधयितुं गौरश्यामः श्रीविठ्ठलेश्वरः॥
3
निजाचार्योदितस्वीयमार्गसेव्यस्वरूपताम्। बोधयन्नभयात्माऽयं गौरश्यामो विराजते॥
4
रसस्य द्विविधस्यापि स्वरूपे बोधयन् स्थितिम्। ऐक्यं विरुद्धधर्मत्वाद्गौरश्यामः कृपानिधिः॥
5
स्त्रीभावभगवद्भावोभयात्मेति विबोधितुम्। स्वस्वरूपं हरिर्गौरश्यामः श्रीविठ्ठलेश्वरः॥
6
भावात्मकत्वतो दृष्टिर्हासलीलाकृतिस्तथा। अतो विलोक्यते गौरश्यामः श्रीविठ्ठलेश्वरः॥
7
निजानन्दप्रदानेन व्यवधाने दिवानिशम्। न करोति व्रजस्थानमिति श्रीमत्प्रभुस्तथा॥
8
सर्वात्मकामभावात्मस्वरूपं बोधयन्प्रभुः। श्रीविठ्ठलेश्वरोऽस्माकं गौरश्यामो विराजते॥