Shri Sarasvati Ashtakam

Ashtakam

1

श्रीशारदाम्ब विमलाम्बरशुक्लवर्णां वीणाधरां सुधवलां कलहंस रूढाम्। ज्योतिर्मयं स्फटिकहारधरां सुकण्ठीं हस्तेक पुस्तकधरां प्रणमामिवाणीम्॥

2

घोरान्धकारहृदि मे ज्वलयन् सुज्योतिं ज्ञानं प्रदाय सततं विपुलाञ्चनित्यम्। मातः प्रदातु निजभक्त जनाय मुक्तिं त्रायस्व मां भगवती भवताप तप्तम्॥

3

सरस्वतीं शुक्ल सुहंसवाहिनीं श्वेताम्बरां श्वेत सरोज वासिनीम्। श्वेतां सुदिव्यां स्फटिकारव्यमालिनीं सुधामयीं भारतीभास्वतीं भजे॥

4

आनन्ददात्रीं सुप्रकाशदात्रीं सौभाग्यदात्रीं जननीं सुपात्रीम्। सर्वेषु शास्त्रेषु सुबोधदात्रीं श्रीभारतीं त्वां प्रणमामिनित्यम्॥

5

संसार सागर समुत्तरणाय भक्त्या ध्यायन्तित्वां सुकवयोहृदिभावयुक्ताः। सम्प्राप्यज्ञानमचलं तवसुप्रसादात् संसारजं सकलदुःखतरन्तिपारम्॥

6

समुज्ज्वलां दिव्य विभूषिताम्बरां संसार दुःख दहनां सततं स्मरामि। त्वत्पादभक्त्या सुलभं सुदुर्लभं सर्वत्रस्वानन्द सुधाम्पिवाम्यहम्॥

7

ज्ञानामृताब्धि रससारमयीं सुनेत्रीं शुक्लाम्बरां कनकभूषणभूषिताङ्गीम्। वीणां सुपुस्तकधरां स्फटिकारव्यमालां विद्यान्नमामि सततमभयां पराभ्वाम्॥

8

सरस्वत्याष्टकं दिव्यं भक्तिभाव समन्वितम्। पठनात् शारदा नित्यं ददातिविमलामति॥