Shrimad Bhagavadgita Ashtakam

Ashtakam

1

श्रीकृष्णो विजयतेतराम्॥

2

नमः श्री राघवानन्द-पदपङ्कजरेणवे। यत्कृपालवमात्रेण अहमज्ञोऽपि तारितः॥

3

अथ श्रीमद्भगवद्गीताष्टकम्॥

4

वेदार्थतत्त्वनिपुणैः सादसि प्रगीतां अज्ञानतान्तपटलं परिकर्षयन्तीम्। विज्ञानसूक्तिभिरलङ्कृतगात्रशोभां गीतां भजामि सततं जगदर्कवर्णाम्॥

5

श्रीकृष्णसुन्दरमुखप्रभवां सुशीलां आदौ सुधीररणकर्कशजिष्णुपीताम्। विज्ञानत्त्वनिचयां निगमैकवेद्यां गीतां भजामि सततं सकलार्थसाराम्॥

6

श्रीशङ्करादिकृतभाष्यपवित्रसूक्तिः अद्वैतवादशिशिरीकतमञ्जुवाणी। सुश्लोकसप्तशतनिर्मितपुष्पवल्ली गीता करोतु विमलं कलुषं मनो मे॥

7

शान्तिप्रवाहमधुराक्षरयुक्तिपूर्णा दुष्टप्रतर्कवनमक्षणकाननाग्निः। शीतांशुवर्षणकरी भवती प्रसिद्धा गीता सदा वसतु मे हृदये प्रसन्ना॥

8

पीत्वा न तृप्तिमगमन् मुनयो न सिद्धाः विद्याधरासुरनराधिपसार्वभौमाः। सङ्गीतशास्त्रगुणमण्डितपण्डितौघाः यत्सारमच्युतमुखप्रभवं विशुद्धम्॥

9

मातर्महामहिमशालिनि विश्ववन्द्ये संसारजन्ममृतिरोगविनाशशीले। निर्वाणमुक्तिमुकुटीकृतभावदात्रि गीते मदीयरसनानिलये वस त्वम्॥

10

यादित्यचन्द्रकिरणैरपि दुर्विभाव्यं मोहात्मकं तिमिरमाशु जनप्रविष्टम्। दूरीकरोति दुरितं वचसा मनोजं तामीश्वरीं भगवतीं प्रणमामि गीताम्॥

11

दृष्टं न शास्त्रनिगमेषु समं भवत्याः माधुर्यवाक्यकलिताक्षरभावपूर्णम्। वेदान्ततत्त्वमणिमण्डितनिर्विकल्पं अत्र त्वमेव जयतान्नितरां सुगीते !॥

12

गीताष्टकमिदं प्रोक्तमच्युतानन्दभिक्षुणा। यः पठेद्भक्तिभावेन तस्य गीता प्रसीदति॥