Shri Ramakrishna Ashtakam
Ashtakam
1
श्रीमद्रामकृष्णपादाब्जसुधापानोन्मत्ता रसिका भावुकाः पिबन्तु सर्वकल्याणकरं, तन्नामामृतं मुदा विश्वस्य धाता पुरुषस्त्वमाद्यो- ऽव्यक्तेन रूपेण ततं त्वयेदम्। हे रामकृष्ण, त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम्॥
2
त्वं पासि विश्वं सृजसि त्वमेव त्वमादिदेवो विनिहंसि सर्वम्। हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम्॥
3
मायां समाश्रित्य करोषि लीलां भक्तान् समुद्धर्तुमनन्तमूर्तिः। हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम्॥
4
विधृत्य रूपं नरवत्त्वया वै विज्ञापितो धर्म इहातिगुह्यः। हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम्॥
5
तपोऽथ ते त्यागमदृष्टपूर्वं दृष्ट्वा नमस्यन्ति कथं न विज्ञाः। हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम्॥
6
श्रुत्वात्र ते नाम भवन्ति भक्ताः दृष्ट्वा वयं तन्नतु भक्तियुक्ताः। हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम्॥
7
सत्यं विभुं शान्तमनादिरूपं प्रसादये त्वामजमन्तशून्यम्। हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम्॥
8
जानामि तत्त्वं न हि देशिकेन्द्रं किं वा स्वरूपं कथमेव भावम्। हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम्॥