Bhavabandhamuktyashtakam

Ashtakam

1

एकं द्वितीयरहितं सदबाधितं च सच्चित्स्वरूपमिति यच्छ्रुतिशीर्षपूगैः। जेगीयते सकललोकविवर्तभूतं तद्भावयामि सततं भवबन्धमुक्त्यै॥

2

अन्नासुमानसमुखप्रकृतीञ्जगाद कोशाञ्छ्रुतिर्यदवबोधकृतेऽत्र पञ्च। सर्वान्तरं भृगुमुनिप्रवरेण दृष्टं तद्भावयामि सततं भवबन्धमुक्त्यै॥

3

आनाशकेन तपसा बहुदक्षिणेन यज्ञेन दाननिचयाच्छ्रुतिपाठतश्च। इच्छन्ति वेत्तुमिह यद्धरणीसुराग्र्या- स्तद्भावयामि सततं भवबन्धमुक्त्यै॥

4

कश्चिद्विपश्चिदिह संसृतिसौख्यवाञ्छां सन्त्यज्य सद्गुरुमुपेत्य कृपापयोऽब्धिम्। विज्ञाय तद्वचनतः खलु मोदते य- त्तद्भावयामि सततं भवबन्धमुक्त्यै॥

5

प्राणान्नियम्य तु मनो हृदयारविन्दे भ्रूगह्वरे शिरसि वा प्रणिधाय सम्यक्। ध्यायन्ति यत्परगुरोर्वचनानुसारा- त्तद्भावयामि सततं भवबन्धमुक्त्यै॥

6

यज्जाग्रदादिसमये धृतविश्वमुख्य- नामातनोति बहिरन्तरवस्तुसेवाम्। सुप्तावबोधसहितस्य सुखस्य भोक्तृ तद्भावयामि सततं भवबन्धमुक्त्यै॥

7

वागादयःस्वविषयेषु चरन्ति येन सञ्चोदिताः प्रभुवरेण यथा सुभृत्याः। तत्सर्वकार्यकरणव्यवहारसाक्षि सञ्चिन्तयामि सततं भवबन्धमुक्त्यै॥

8

संन्यस्य कर्मनिचयं च तदङ्गभूतं सूत्रं शिखां च पुनरप्यबलादिरागम्। बोधाय यस्य यतते परिशुद्धचित्त- स्तद्भावयामि सततं भवबन्धमुक्त्यै॥

9

पद्याष्टकं पठति योऽर्थविबोधपूर्वं सञ्चिन्तयन्ननुदिनं प्रतिपाद्यवस्तु। भक्त्या युतः कलुषदूरनिजान्तरङ्ग- स्तस्याचिराद्धि भविता भवबन्धमुक्तिः॥