Shri Krishnakundashtakam
Ashtakam
1
किं तपश्चचार तीर्थलक्षमक्षयं पुरा सुप्रसीदति स्म कृष्ण एव सदरं यतः। यत्र वासमाप साधु तत्समस्तदुर्लभे तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः॥
2
यद्यरिष्टदानवोऽपि दानदो महानिधे- रस्मदादिदुर्मतिभ्य इत्यहोवसीयते। यो मृतिच्छलेन यत्र मुक्तिमद्भुतां व्यधात् तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः॥
3
गोवधस्य निष्कृतिस्त्रिलोकतीर्थकोटिभी राधयेत्यवादि तेन ता हरिः समाह्वयन्। यत्र पार्ष्णिघाटजे ममज्ज च स्वयं मुदा तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः॥
4
क्वापि पापनाश एव कर्मबन्धबन्धना- द्ब्रह्मसौख्यमेव विष्णुलोकवासिता क्वचित्। प्रेमरत्नमत्ययत्नमेव यत्र लभ्यते तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः॥
5
फुल्लमाधवीरसालनीपकुञ्जमण्डले भृङ्गकोककोकिलादिकाकली यदञ्चति। आष्टयामिकावितर्ककोटिभेदसौरभं तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः॥
6
दोलकेलिचित्ररासनृत्यगीतवादनै- र्निह्नवप्रसूनयुद्धसीधुपानकौतुकैः। यत्र खेलतः कोशोरशेखरौ सहालिभि- स्तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः॥
7
दिव्यरत्ननिर्मितावतारसारसौष्टवै- श्छत्रिका विराजि चारु कुट्टिमप्रभाभरैः। सर्वलोकलोचनातिधन्यता यतो भवेत् तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः॥
8
माथुरं विकुण्ठतोऽपि जन्मधामदुर्लभं वास्काननन्ततोऽपि पाणिना धृतो गिरिः। श्रीहरेस्ततोऽपि यत्परं सरोऽतिपावनं तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः॥
9
कृष्णकुण्डतीरवाससाधकं पठेदिदं योऽष्टकं धियं निमज्य केलकुञ्जराजितोः। राधिकागिरीन्द्रधारिणोः पदाम्बुजेषु स प्रेमदास्यमेव शीघ्रमाप्नुयादनामयम्॥
10
इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीकृष्णकुण्डाष्टकं समाप्तम् ।॥