LakShmi Ashtakam

Ashtakam

1

यस्याः कटाक्षमात्रेण ब्रह्मरुद्रेन्द्रपूर्वकाः। सुराः स्वीयपदान्यापुः सा लक्ष्मीर्मे प्रसीदतु॥

2

याऽनादिकालतो मुक्ता सर्वदोषविवर्जिता। अनाद्यनुग्रहाद्विष्णोः सा लक्ष्मी प्रसीदतु॥

3

देशतः कालतश्चैव समव्याप्ता च तेन या। तथाऽप्यनुगुणा विष्णोः सा लक्ष्मीर्मे प्रसीदतु॥

4

ब्रह्मादिभ्योऽधिकं पात्रं केशवानुग्रहस्य या। जननी सर्वलोकानां सा लक्ष्मीर्मे प्रसीदतु॥

5

विश्वोत्पत्तिस्थितिलया यस्या मन्दकटाक्षतः। भवन्ति वल्लभा विष्णोः सा लक्ष्मीर्मे प्रसीदतु॥

6

यदुपासनया नित्यं भक्तिज्ञानादिकान् गुणान्। समाप्नुवन्ति मुनयः सा लक्ष्मीर्मे प्रसीदतु॥

7

अनालोच्यापि यज्ज्ञानमीशादन्यत्र सर्वदा। समस्तवस्तुविषयं सा लक्ष्मीर्मे प्रसीदतु॥

8

अभीष्टदाने भक्तानां कल्पवृक्षायिता तु या। सा लक्ष्मीर्मे ददात्विष्टं ऋजुसङ्घसमर्चिता॥

9

एतल्लक्ष्म्यष्टकं पुण्यं यः पठेद्भक्तिमान् नरः। भक्तिज्ञानादि लभते सर्वान् कामानवाप्नुयात्॥

10

वैष्णवेभ्यः प्रदातव्यमेतत् स्तोत्रं प्रयत्नतः। अवैष्णवाय यो दद्यात् मोहात् स ब्रह्महा भवेत्॥