Shri ShAkambhari Ashtakam
Ashtakam
1
शक्तिः शाम्भवविश्वरूपमहिमा माङ्गल्यमुक्तामणि- र्घण्टा शूलमसिं लिपिं च दधतीं दक्षैश्चतुर्भिः करैः। वामैर्बाहुभिरर्घ्यशेषभरितं पात्रं च शीर्षं तथा चक्रं खेटकमन्धकारिदयिता त्रैलोक्यमाता शिवा॥
2
देवी दिव्यसरोजपादयुगले मञ्जुक्वणन्नूपुरा सिंहारूढकलेवरा भगवती व्याघ्राम्बरावेष्टिता। वैडूर्यादिमहार्घरत्नविलसन्नक्षत्रमालोज्ज्वला वाग्देवी विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा॥
3
ब्रह्माणी च कपालिनी सुयुवती रौद्री त्रिशूलान्विता नाना दैत्यनिबर्हिणी नृशरणा शङ्खासिखेटायुधा। भेरीशङ्खक्ष् मृदङ्गक्ष् घोषमुदिता शूलिप्रिया चेश्वरी माणिक्याढ्यकिरीटकान्तवदना त्रैलोक्यमाता शिवा॥
4
वन्दे देवि भवार्तिभञ्जनकरी भक्तप्रिया मोहिनी मायामोहमदान्धकारशमनी मत्प्राणसञ्जीवनी। यन्त्रं मन्त्रजपौ तपो भगवती माता पिता भ्रातृका विद्या बुद्धिधृती गतिश्च सकलत्रैलोक्यमाता शिवा॥
5
श्रीमातस्त्रिपुरे त्वमब्जनिलया स्वर्गादिलोकान्तरे पाताले जलवाहिनी त्रिपथगा लोकत्रये शङ्करी। त्वं चाराधकभाग्यसम्पदविनी श्रीमूर्ध्नि लिङ्गाङ्किता त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे॥
6
श्रीदुर्गे भगिनीं त्रिलोकजननीं कल्पान्तरे डाकिनीं वीणापुस्तकधारिणीं गुणमणिं कस्तूरिकालेपनीम्। नानारत्नविभूषणां त्रिनयनां दिव्याम्बरावेष्टितां वन्दे त्वां भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे॥
7
नैरृत्यां दिशि पत्रतीर्थममलं मूर्तित्रये वासिनीं साम्मुख्या च हरिद्रतीर्थमनघं वाप्यां च तैलोदकम्। गङ्गादित्रयसङ्गमे सकुतुकं पीतोदके पावने त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे॥
8
द्वारे तिष्ठति वक्रतुण्डगणपः क्षेत्रस्य पालस्ततः शक्रेड्या च सरस्वती वहति सा भक्तिप्रिया वाहिनी। मध्ये श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे॥
9
शाकम्भर्यष्टकमिदं यः पठेत्प्रयतः पुमान्। स सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात्॥
10
इति श्रीमच्छङ्कराचार्यविरचितं शाकम्भर्यष्टकं सम्पूर्णम्॥