janmavaiphalyanirUpaNAShTakam

Ashtakam

1

नाश्रितो वल्लभाधीशो न च दृष्टा सुबोधिनी। नाराधि राधिकानाथो वृथा तज्जन्म भूतले॥

2

न गृहीतं हरेर्नाम नात्माद्यखिलमर्पितम्। न कृष्णसेवा विहिता वृथातज्जन्म भूतले॥

3

न लीलाचिन्तनं नैव दीनता विरहात् हरेः। ल वा कृष्णाश्रयः पूर्णो वृथा तज्जन्म भूतले॥

4

न नीता वार्तया घस्राः साधवो नैव सेविताः। न गोविन्दगुणा गीता वृथा तज्जन्म भूतले॥

5

न कृष्णरूपसौन्दर्यमनो नैव विरागिता। न दुःसङ्गपरित्यागो वृथा तज्जन्म भूतले॥

6

न भक्तिः पुष्टिमार्गीया न निःसाधनता हृदि। न विस्मृतिः प्रपञ्चस्य वृथा तज्जन्म भूतले॥

7

न धर्मपरता नैव धर्ममार्गे मनोगतिः। न भक्तिर्ज्ञानवैराग्ये वृथा तज्जन्म भूतले॥

8

न निजस्वामिविरहपरितापो न भावना। न दैन्यं परमं यस्य वृथा तज्जन्म भृतले॥

9

इति श्रीहरिरायवर्यविरचितं जन्मवैफल्यनिरूपणाष्टकम्॥