Shri Balakrishna Ashtakam

Ashtakam

1

यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम्। भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे॥

2

प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः। यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे॥

3

स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः। यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे॥

4

सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम्। यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे॥

5

सुसम्पदा सत्कलया सद्विद्यावृद्धिगामिनी। यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे॥

6

अनन्याऽहैतुकी पूर्णा स भक्तिः सुदृढा भवेत्। यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे॥

7

इयत्तारहितो नित्य आनन्दः प्राप्यतेऽनिशम्। यत्कृपालेशमात्रेण तं श्रीबालहरि भजे॥

8

श्रीवल्लभेशपादाब्जे रतिः स्याद्विमला परा। यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे॥

9

अष्टकं श्रीबालहरेरिदं मङ्गलकृत्प्रियम्। पठेद्वा श‍ृणुयाद्भक्त्या फलं विन्देत्स वाञ्छितम्॥