Shrimad Bhagavata Ashtakam
Ashtakam
1
(शार्दूलविक्रीडितम्) श्रीगोविन्दपदारविन्दमधुपानन्याभिलाषोत्भितान् पूर्णप्रेमरसोत्सवोज्ज्वलमनोवृत्तिप्रसन्नाननान्। शश्वत्कृष्णकथामहामृतपयोराशौ मुदा खेलतो वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ॥
2
पादाब्जे कृतसत्कृतावपि चतुर्वर्गे घृणां कुर्वतो दृक्पातेऽपि गतव्यथान् व्रजपतिप्रेमामृतास्वादकान्। मन्वानानतिदुस्तरं भवमहापाथोनिधिं गोष्पदं वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ॥
3
मृग्यां ब्रह्मभवादिभिर्व्रजवधूनाथाङ्घ्रिकञ्जद्वयीं स्वातन्त्र्यात्प्रणयोरुरज्जुभिरहो बद्धा बलान्निर्भरम्। स्वच्छन्दं पिबतः सदासवरसं प्रस्यन्दमानं मुदा वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ॥
4
विश्वेषां हृदयोत्सवान्स्वसुखदान्मायामनुष्याकृतीन् कृष्णेनाध्यवतारितान् जनसमुद्धाराय पृथ्वीतले। संसाराब्धिबहित्रपादकमलांस्त्रैलोक्य भाग्योदयान् वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ॥
5
आलोकामृतदानतो भवमहावन्धं नृणां छिन्दतः स्पर्शात्पादसरोजशौचपयसां तापत्रयं भिन्दतः। आलापाद् व्रजनागरस्य पदयोः प्रेमाणमातन्वतो वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ॥
6
भावावेशसमुज्ज्वलान् पुलकिनो हर्षाश्रु धारावली- निर्द्धौताननपङ्कजान्नवनवानन्दाद्भृशं नृत्यतः। प्रेमोच्चैश्चरितं सगद्गदपदं गोपी-पतेर्गायतो वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ॥
7
प्रेमास्वादपरायणान् हरिपदस्फूर्तिस्फुरन्मानसान् नानन्दैकपयोनिधीन्रससमुल्लासिस्मितश्रीमुखान्। धन्यान् सच्चरितौघनन्दितजनान्कारुण्यपूराशयान् वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ॥
8
कृष्णादन्यमजानतः क्षणमपि स्वप्नेऽपि विश्वेश्वरे तस्मिन्भक्तिम हैतुकीं विदधतो हृत्कायवाग्भिः सदा। श्रीलान् सद्गुणपुञ्जकेलिनिलयान्प्रेमावतारानहं वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ॥
9
एतद्भागवताष्टकं पठति यः श्रद्धान्वितः क्षेमदं भक्त्युद्रेकविवर्धनं प्रतिपदं प्रेमप्रमोदप्रदम्। प्रेमाणं परमं ध्रुवं स लभते वृन्दावने सात्मसु क्षिप्रं भागवतेषु येन वशगो गोपाङ्गनावल्लभः॥