AdityAShTakam

Ashtakam

1

उदयाद्रिमस्तकमहामणिं लसत्- कमलाकरैकसुहृदं महौजसम्। गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम्॥

2

तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम्। गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम्॥

3

दिनरात्रिभेदकरमद्भुतं परं सुरवृन्दसंस्तुतचरित्रमव्ययम्। गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम्॥

4

श्रुतिसारपारमजरामयं परं रमणीयविग्रहमुदग्ररोचिषम्। गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम्॥

5

शुकपक्षतुण्डसदृशाश्वमण्डलं अचलावरोहपरिगीतसाहसम्। गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम्॥

6

श्रुतितत्त्वगम्यमखिलाक्षिगोचरं जगदेकदीपमुदयास्तरागिणम्। गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम्॥

7

श्रितभक्तवत्सलमशेषकल्मष- क्षयहेतुमक्षयफलप्रदायिनम्। गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम्॥

8

अहमन्वहं सतुरगक्षताटवी शतकोटिहालकमहामहीधनम्। गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम्॥

9

इति सौरमष्टकमहर्मुखे रविं प्रणिपत्य यः पठति भक्तितो नरः। स विमुच्यते सकलरोगकल्मषैः सवितुस्समीपमपि सम्यगाप्नुयात् ९॥

10

इति आदित्याष्टकं समाप्तम्॥